SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ छन्दोमार्याम् (१५) अत्यष्टिः । (सप्तदशाक्षरा वृत्तिः ।) रसै रुदैश्छिन्ना यमनसभला गः शिखरिणी ॥३॥ करादस्य भ्रष्टे ननु शिखरिणी दृश्यति शिशो विलीनाः स्मः सत्यं नियतमवधेयं तदखिलैः ॥ इति त्रस्यद्गोपानुचितनिभृतालापजनितं स्मितं विभ्रद्देवो जगदवतु गोवर्धनधरः ॥ जसौ जसयला वसुग्रहयातिश्च पृथ्वी गुरुः ॥२॥ दुरन्तदनुजेश्वरप्रकरदुस्थपृथ्वीभरं जहार निजलीलया यदुकुलेऽवतीर्याशु यः ॥ स एष जगतां गतिर्दुरितभारमस्मादृशा __ हरिष्यति हरिः स्तुतिस्मरणचाटुभिस्तोषितः ॥ दिङ्मुनि वंशपत्रपतितं भरनभनलगैः॥२॥ नूतनवंशपत्रपतितं रजनिजललवं पश्य मुकुन्द ! मौक्तिकमिवोत्तममरकतगम् ॥ एष चतं चकोरनिकरः प्रपिबति मुदितो ___वान्तमवेत्य चन्द्रकिरणैरमृतकणमिव ॥ सम्प्रति लब्धजन्म शनकैः कथमपि लघनि क्षीणपयस्युपेयुषि भिदां जलधरपटले ॥ खण्डितविग्रहं बलभिदो धनुरिह विविधाः ___पूरयितुं भवन्ति विभवः शिखरमणिरुचः॥ इति भारवौ । वंशपत्रपतितेति केचित् ।। मन्दाक्रान्ताम्बुधिरसनगैर्मो भनौ तौ गयुग्मम् ॥ ४ ॥ प्रेमालापैः प्रियवितरणैः प्रीणितालिङ्गनायै मन्दाक्रान्ता तदनु नियतं वश्यतामेति बाला ॥ एवं शिक्षावचनसुधया राधिकायाः सखीनां । प्रीतः पायात्स्मितसुवदनो देवकीनन्दनो नः ॥ नसमरसला गः षड्वेदैहयैर्हरिणी मता ॥ ५ ॥ व्यधित स विधिर्नेत्रं नीत्वा ध्रुवं हरिणीगणा द्वजमृगदृशां सन्दोहस्योल्लसन्नयनश्रियम् ॥ यदयमनिशं दूर्वाश्याम मुरारिकलेवरे व्यकिरदद्धिकं बद्धाकाङ्क्ष विलोलविलोचनम् ॥ यदि भवतो नजौ भजजला गुरु नर्दटकम् ।। ६ ॥
SR No.023482
Book TitleVruttaratnakar
Original Sutra AuthorN/A
AuthorKedar Bhatt, Narayan Bhatta, Vidyanatha Shastri
PublisherJai Krishna Das Hari Das Gupta
Publication Year1927
Total Pages306
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy