SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ द्वितीयः स्तबकः । प्रमाणिकापदद्वयं वदन्ति पञ्चचामरम् ॥ ४ ॥ सुरमूलमण्डपे विचित्ररत्ननिर्मिते लसद्वितानभूषिते सलीलविभ्रमालसम् ॥ सुराङ्गनाभवल्लवीकरप्रपञ्चचामर स्फुरत्समीरवीजितं सदाच्युतं भजामि तम् ॥ भौ नो नौ गो मदनललिता वेदैः षडृतुभिः ॥ ५ ॥ विभ्रष्टस्त्रग्गलितचिकुरा धौताधरपुटा ग्ला यत्पत्रावलिकुचतटोच्छ्वासोर्मितरला ॥ राधाऽत्यर्थं मदनल लितान्दोलालसवपुः कंसाराते रतिरसमहो चक्रेऽतिचटुलम् ॥ नजभजरैर्यदा भवति वाणिनी गयुक्तैः ॥ ६ ॥ स्फुरतु ममाननेऽद्य ननु वाणि ! नीतिरम्यं तव चरणप्रसादपरिपाकतः कवित्वम् ॥ भवजलराशिपारकरणक्षमं मुकुन्दं सततमहं स्तवैः स्वरचितः स्तवानि नित्यम् ॥ यमौ न स्रौ गश्च प्रवरललितं नाम वृत्तम् ॥ ७ ॥ भुजोत्क्षेपः शून्ये चलवलयभङ्कारयुक्तो मुधा पादन्यासः प्रकटिततुलाकोटिनादः ॥ स्मितं वक्त्रेऽकस्माद् दृशि पटुकटाक्षोर्मिलीला हरौ जीयादीद्वक्प्रवरललितं बल्लवीनाम् ॥ द्विगुणितवसुलघुभिरचलधृतिरिह ॥ ८ ॥ तरणिदुहितृतरुचिरतरवसति रमरमुनिमुखजन विहितनुतिरिह || मुररिपुरभिनवजलधररुचितनु रचलधृतिरुदयति सुकृतिहृदि खलु ॥ गरुडरुतं नजौ भजतगा यदा स्युस्तदा ॥ ६ ॥ श्रमरमयूर मानसमुदे पयोदध्वनि fosed मुरारिभुजगेन्द्रसन्त्रासने ॥ धरणिभरावतारविधि डिण्डिमाडम्बरः स जयति कंसरङ्गभुवि सिंहनादो हरेः ॥ २३१
SR No.023482
Book TitleVruttaratnakar
Original Sutra AuthorN/A
AuthorKedar Bhatt, Narayan Bhatta, Vidyanatha Shastri
PublisherJai Krishna Das Hari Das Gupta
Publication Year1927
Total Pages306
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy