________________
द्वितीयः स्तबकः।
२२६
स्रगियमपि च रसनवरचितयतिः ॥२॥ अयि ! सहचरि! रुचिरतरगुणमयी
म्रदिमवसतिरनपगतपरिमला ॥ स्रगिव निवस विलसदनुपमरसा
सुमुखि ! मुदितदनुजदलनहृदये ॥ वसुमुनियतिरिति मणिगुणनिकरः ॥३॥
नरकरिपुरवतु निखिलसुरगति
_रमितमहिमभरसहजनिवसतिः॥ अनवधिमणिगुणनिकरपरिचितः
सरिदधिपतिरिव धृततनुविभवः ॥ ननमयययुतेयं मालिनी भोगिलोकैः ॥ ४॥ मृगमदकृतचर्चा पीतकौशेयवासा
रुचिरशिखिशिखण्डाबद्धधम्मिल्लपाशा । अनृजु निहितमंसे वंशमुत्वाणयन्ती
धृतमधुरिपुलीला मालिनी पातु राधा ॥ एकन्यूनौ विद्युन्मालापादौ चेल्लीलाखेलः ॥ ५ ॥ पायाद्वो गोविन्दः कालिन्दीकूलक्षोणीचके
रासोल्लासक्रीडद्गोपीभिः साध लीलाखेलः ॥ मन्दाकिन्यास्तीरोपान्ते स्वैरक्रीडाभिर्लोलो
___ यद्वदेवानामीशः स्ववैश्यामिः खेलन्तीभिः॥ मा कान्ते ! पक्षस्यान्ते पर्याकाशे देशे स्वाप्सीः
कान्तं वक्त्रं वृत्तं पूर्ण चन्द्रं मत्वा रात्रौ चेत् ॥ क्षुत्क्षामः प्राटश्चेतश्चेतो राहुः करः प्राद्या
त्तस्माद्ध्वान्ते हर्म्यस्यान्ते शय्यैकान्ते कर्तव्या ॥ इति कण्ठाभरणः । विपिनतिलकं नसनरेफयुग्मैर्भवेत् ॥ ६॥ विपिनतिलकं विकसितं वसन्तागमे . .
मधुकृतमदैमधुकरैः क्वणद्भिर्वृतम् ॥ मलयमरुता रचितलास्यमालोकय
वजयुवतिभिविहरति स्म मुग्धो हरिः ॥ तूणकं समानिकापदद्वयं विनान्तिमम् ।। ७॥ ..