________________
२२
छन्दीमञ्जर्याम्
सिंहोद्धता क्वापि । ननरसलघुगैः स्वरैपराजिता ॥ ३ ॥ यदनवधिभुजप्रताप कृतास्पदा यदु निचयचमूः पररपराजिता ॥ व्यजयत समरे समस्त रिपुव्रजं
जयति जगतां गतिर्गरुडध्वजः ॥
ननभनलगिति प्रहरणकलिका ॥ ४ ॥
व्यथयति कुसुमप्रहरणकलिका
प्रमदवनभवा तव धनुषि तता ॥ विरहविपदि मे शरणमिह ततो
मधुमथनगुणस्मरणमविरतम् ॥ मात्तो नो मो गौ यदि गदिता वासन्तीयम् ॥ ५ ॥ भ्राम्यद्भृङ्गी निर्भरमधुराला पोद्गीतैः
श्रीखण्डारभुत पवनैर्मन्दान्दोला ||
लीलालोला पल्लवविलसद्धस्तोल्लासैः
कंसारातौ नृत्यति सदृशी वासन्तीयम् ॥ द्विःसप्तच्चिदि लोला सौम्भौ गौ चरणे चेत् ॥ ६ ॥
मुग्धे ! यौवनलक्ष्मीर्विद्युद्विभ्रमलोला त्रैलोक्याद्भुतरूपो गोविन्दोऽतिदुरापः ॥ तद्वृन्दावनकुज्जे गुञ्जद्भृङ्गसनाथे
श्रीनाथेन समेता स्वच्छन्दं कुरु केलिम्
स्वरभिदि यदि नौ तौ च नान्दीमुखी गौ ॥ ७ ॥
सरसखगकुलालापनान्दीमुखीयं
लहरिभुजलया चारुफेन स्मितश्रीः ॥ मुरहर ! कलयासत्तिमासाद्य किं ते प्रमुदितहृदया भानुजा नृत्यतीह ॥
(१५) अतिशर्करी । (पञ्चदशाक्षरा वृत्तिः )
गुरुनिधनमनुलघुरिह शशिकला ॥ १ ॥
मलयज तिलकसमुदितशशिकला
व्रजयुवतिलसद लिकगगनगता ॥ सरसिजनयनहृदयसलिलनिधिं
व्यतनुत विततरभस परितरलम् ॥
P