________________
પદ્
नारायणभट्टीसहित वृत्तरत्नाकरे
तदधस्तानेव क्रमेण न्यसेत् । ततोऽधस्तनेन स्वोपरिस्थो भाज्यः, भागेन लब्धेन तदग्रिमो गुण्यः, तदधस्तनेन च भाज्यः । लब्धेनाग्रिमं गुणयेत्, तदधस्तनेन भागं हरेत्, इत्येवं यावदङ्कसमाप्ति कार्यम् । लब्धाङ्काश्च क्रमेण स्थाप्याः । एवं कृते लब्धाङ्केषु प्रथमेनैकगुरवो ज्ञेयाः, द्वितीयेन द्विगुरव इत्यादि ज्ञेयम् । इदं पडत्तरपादे गायत्रीवृत्ते योज्यते न्यासः
६५ ४ ३ २ १ १ २ ३ ४
૫ ↑
अत्रैकेन षण्णां भागे लब्धाः षटू, षडूभिः पञ्चसु गुणितेषु ३० द्वाभ्यां भक्ते लब्धाः १५, एतैश्चतुर्षु गुणितेषु ६० त्रिभिर्भागे लब्धं २०, एभिस्त्रिषु गुणितेषु ६० चतुर्भिर्भागे लब्धं १५, एतैर्द्वयोर्गुणनेन ३० पञ्चभिर्भागे लब्धं ६, एतैरेकस्मिन्गुणितं षडेव पभिर्भागे लब्धं १, एतेषां क्रमेण विभक्तानां न्यासः – ६ | १५ | २० | १५ | ६ । १ । एकगुरवः ६, द्विगुरवः १५, त्रिगुरवः २०, चतुर्गुरवः १५, पञ्चगुरवः ६, सर्वगुरुः सर्वलघुरेकः स्वतः सिद्ध एव । एवमन्यत्रापि योज्यम् । तदाहुर्लीलावतीकाराःएकाद्येकोत्तरा श्रङ्का व्यस्ता भाज्याः क्रमस्थितैः । परः पूर्वेण सङ्गुण्यस्तत्परस्तत्परेण च ॥ एकद्वित्र्यादिभेदाः स्युरिदं साधारणं स्मृतम् । छन्दश्चित्युत्तरे छन्दस्युपयोगोऽस्ति तद्विदाम् ॥ इति ।
अथ सूत्रकारोक्तो लगक्रियाप्रकारः ।
अथैकद्वयादिलघुगुरु क्रियासिद्ध्यर्थमेव सूत्रकारोक्तो मेरुप्रस्तारः । तत्र प्रथममेकं चतुरस्त्रं कोष्ठं लिखेत् । तदध उभयतो ऽर्थ निष्क्रान्तं कोष्ठद्वयम् । तदधस्तथैव त्रयम् । तदधस्तथैव चतुष्टयम् । इत्येवं षड्विंशतिको ष्ठलेखनं यावत्कार्यम् । उपरि कोष्ठे एकाङ्को देयः तथा प्रतिपक्ति श्राद्यन्तकोष्टेषु एकाङ्क एव । तृतीयपको मध्यमकोष्ठे शून्ये तदुपरिगतकोष्ठद्रयगतैकाङ्कावेकीकृत्य द्व्यङ्कं न्यसेत् । एवं चतुर्थपङ्क्तौ मध्यकोष्ठयोरुपरि - गतकोष्ठद्वयामेकीकृत्य त्र्यङ्कौ । एवं सर्वत्रोपरितन कोष्ठद्वयाङ्कमे कीकृत्याधस्तनकोष्ठे दद्यात् । एवं षडविंशति कोष्ठक पङ्क्ति यावत्कार्यम् । तदुक्तम्श्रादावेकं लिखेत्कोष्ठं तदधो द्वे च संल्लिखेत् । तदधस्त्रीणि कोष्ठानि एवं रूपेण वर्धयेत् ॥ श्रादावन्ते लिखेदेकं मध्यं कोष्ठं च पूरयेत् । लेख्यकोष्ठोपरिप्राप्तरग्रिमाङ्केन संयुतैः ।। इति ।