________________
१२४
नारायणभट्टीसहित वृत्तरत्नाकरे
षड्भिः षडुभिश्च यतिः । 'मभसमैर्जलधरमाला । यथाधत्ते शोभां कुवलयदामश्यामे शैलोत्सङ्गे जलधरमाला नीला । विद्युल्लेखा कनकधृतालङ्कारा क्रीडासुप्ता युवतिरिवाजे पत्युः ॥ चतुर्भिरष्टभिश्च यतिः । “नौ रौ गौरी ।" यथा
I
प्रणमत चरणारविन्दद्वयं त्रिभुवननमितस्य गौरीपतेः । सकृदपि मनसैव यः सेवितः प्रवितरति यथेष्टमष्टौ गुणान् ॥ एतस्या एव गौर्या दण्डकात्प्रागेकैक रेफवृद्धौ नामान्तराणि भवन्ति ॥ “भतनसा ललना ।" यथा
या कुचगुर्वी मृगशिशुनयना पीननितम्बा मदकरिगमना । किन्नरकण्ठी सुललितदशना सा तव सौख्यं वितरतु ललना ॥ पञ्चभिः सप्तभिश्च यतिः । श्रतिजगत्याम् - "सजसजगैः कनकप्रभा " ।
यथा
कनकप्रभा पृथुनितम्बशालिनी विपुलस्तनी हरिणशावकेक्षणा | इयमङ्गना नयनयोः पथि स्थिता कुरुते न कस्य मदनातुरं मनः ॥ "ननततगुरुभिः कुटिलगतिः” । यथा
अधरकिसलये कान्तदन्तक्षते हरिणशिशुद्वशां नृत्यति भ्रूयुगम् । ध्रुवमिदमुचितं यद्विपत्तौ सतामतिकुटिलमतेः स्यान्महानुत्सवः ॥ सप्तभिः षडुभिश्च यतिः । शक्कर्याम् - "भजसनैर्गुरुभ्यां च वरसुन्दरी" ।
यथा
स्वादुशिशिरोज्ज्वलजलैः सुपरिपूर्ण
वीचिचयचञ्चलविचित्रशतपत्रम् ॥ हंसकलकूजितमनोहरतटान्तं
पश्य वरसुन्दरि ! सरोवरमुदारम् ॥ "मभनयगणैः कुटिलम्” । यथाश्रध्वन्यानां जनयति सुखमुच्चैः कूजन्दात्यूहोऽयं पथि निचुलिनि तोयोपान्ते ॥ कर्णाटरस्त्रीरतिकुहरिततुल्यच्छेदै
नदैः कण्ठस्खलन कुटिलमन्दावर्तैः ॥
वेदं रसैः समुद्रैश्च यतिः । श्रष्टौ - "भरनभभगैः शैलशिखा । " यथाशैलशिखानि कुखशयितस्य हरेः श्रवणे
जीर्णतृणं करेण निदधाति कपिश्चपलः ॥ क्षुद्रवधापूवादपरिहारविनीतरुप
स्तस्य न तावतव लघुता द्विपयूथभिदः ॥