________________
पञ्चमोऽध्यायः ।
अत्र ग्रन्थेऽनुक्तानि च्छन्दांसि सामान्यसंज्ञया गृह्णाति - विषमाक्षरपादं वा पादैरसमं दशधर्मवत् । यच्छन्दो नोक्तमत्र गाथेति तत्सूरिभिः प्रोक्तम् ।। १२ ॥
विषमाण्यक्षराणि येषु तादृशाः पादा यस्य तत् । तथा अक्षराणां वैषम्यं च पादेषु गुरुलघुक्रमनियम साम्याभावात्सङ्ख्यासाम्याभावाच्च । वा श्रथवा । पादैरसमं स्वीयैः पादैः कृत्वा चतुःसङ्ख्याकपादैरन्यवृत्तरतुल्यं त्रिपञ्चषडादिपादमिति यावत् । न तु समसङ्ख्याकपादरहितमित्यर्थः । षट्पदाद्यसङ्ग्रहापत्तेः । श्रत एव
शेषं गाथास्त्रिभिः षडुभिश्चरणैश्चोपलक्षिताः । ( वृ०२०१ - १८ ) इति प्रागुक्तम् । विषमाक्षरपादत्वं पदचतुरूर्ध्वादीनामप्यस्तीति तेषां गाथात्वं निवारयितुमाह-यदिति । श्रत्र यच्छन्दो विशेषतो नोक्तं तदित्यर्थः । इदं चावृत्त्या स्वातन्त्र्येणाऽपि योज्यम् । तेन समाक्षरपादानां समपादानां च कुड्मलदन्त्यादीनामपि गाथात्वं सिध्यति । श्रत एव " अत्रानुक्तं गाथा" (पि०सू०८ - १) इति सम्मुग्धाकारेण सूत्रितं पिङ्गलेन । विपमाक्षरपादस्य गाथात्वेऽष्टदशसप्तनवाक्षर मूलकारिकैवोदाहरणम् । पादैरसमत्वे उदाहरणमाह-दशधर्मवदिति । दशधर्मशब्दयोगाल्लक्षणया भारतस्था षट्पदा गाथा दशधर्मशब्देनोच्यते । सा यथा
दश धर्मं न जानन्ति धृतराष्ट्र ! निबोध तान् । मत्तः प्रमत्त उन्मत्तः श्रान्तः क्रुद्धो बुभुक्षितः ॥ त्वरमाणश्च भीरुश्च लुब्धः कामी च ते दश । इति । असमपादानां दशाष्टादशादिपदानां नाटकादिस्थनान्यादीनामप्य
न गाथात्वमुक्तं भवति । यथोक्तम्
१२३
शब्दतो वार्थतो वापि मनाक्काव्यार्थसचना । यत्राष्टभिर्वा दशभिरष्टादशभिरेव वा ॥
विंशत्या पदैर्वापि सा नान्दी परिकीर्तिता । इति ।
'यच्छन्दो नोक्तम्' इत्यस्य स्वातन्त्र्येण व्याख्याने समानामपि गाथात्वं भवति । तत्र कियतीनां वृत्त्यादिपर्यालोचनयोदाहरणानि सलक्षणानि कथ्यन्ते । तत्र त्रिष्टुभि – 'भतनगगुरुभिः कुड्मलदन्ती नाम' । यथा— कुड्मलदन्ती विकटनितम्बा किन्नरकराठी लघुतरमध्या । बिम्बफलोष्ठी मृगशिशुनेत्रा मित्र ! भवन्तं सुखयतु कान्ता ॥ श्रत्र पञ्चभिः षद्भिश्च यतिः । जगत्याम् - 'नजजरैर्वरतनुः । यथाfe ! विजहीहि ढोपगूहनं त्यज नवसङ्गमभीरु ! वल्लभम् । श्ररुणकरोद्गम एष वर्तते वरतनु ! सम्प्रवदन्ति कुक्कुटाः ॥
47