SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ पञ्चमोऽध्यायः। प्रथममधिवसति यदि तुर्य, चरमचरणपदमवसितगुरुयुग्मम् ॥ निखिलमपरमुपरिगतामति ललितपदयुक्ता, ताददममृतधारा॥५॥ प्रथमं तुर्य प्रथमश्वरणश्वरमचरणपदं चतुर्थचरणस्थानं प्राप्नोति । चतुर्थो भवतीत्यर्थः । प्रारनिखिलं प्रथमादिचरणत्रयमापीडप्रथमपादोपरिगतद्वितीयादिपादसमं तदिदं छन्दोऽमृतधारा नाम । अवसितौ गुरुद्वययुक्तमिति इदमित्यस्य विशेषणं सत्पूर्ववत्स्वरूपकीर्तनार्थम् । ललितपदयुक्तेति वृत्तपूरणाय स्वरूपोक्तिः । द्वादशषोडशविंशत्यष्टाक्षरपादक्रम. वती भवतीति सङ्कलितार्थः । यद्यपि वृत्तिकारण प्रथमस्य तृतीयत्वे तृतीयस्य च प्रथमत्वेलवली,प्रथमस्य चतुर्थत्वे चतुर्थस्य च प्रथमत्वेऽमृतधारेति. षोडशद्वादशाष्टाविंशत्यक्षरपादक्रमेण विशतिद्वादशषोडशाष्टाक्षरपादक्रमेण च त्रयोदशैकोनविंशतिभेदयोरेते संझे इति मञ्जर्या विशेषाऽभावेऽपि उत्तरयोविशेष उक्तः, उदाहरणे च तथैव कृते, तथापि "प्रथमस्य विप. से मजरीलवल्यमृतधारा" (पिं० सू०५-२४ ) इति सूत्रस्य साधा. रणत्वात्प्रथमपादमात्रविपर्यासोक्तरितरेषां क्रमाऽभ्यनुज्ञया वा सूत्रस्य मूलकारोक्त एवार्थे तात्पर्यादेवमुक्तम् । प्रापीडवत्पदचतुरूर्वेऽपि पादव्यत्यासे मअर्याद्या भेदा शेयाः । तथा आदावेव सकलपादेषु गुरुद्वय. युतं पदचतुरूवं प्रत्यापीडः । यथा वृत्ती चित्तं मम रमयति कान्तं वनमिदमुपगिरिणदि ॥ कूजन्मधुकरकलरवकृतजनधृति, पुंस्कोकिलमुखरितसुरभिकुसुमचिततरुतति ।। - आदावन्ते च गुरुद्वयसहितं तदेवोभयापीडः । पैङ्गले त्वयमपि प्रत्यापीड एव पथा तत्रैव कान्तावदनसरोजं हृद्यं धनसुरभिमधुरसाढ्यम् ।। पातुं रहसि सततमभिलषति मनो मे किंचिन्मुकुलितनयनमविरतभणितरमणीयम् ॥' अनयोः पूर्वोक्तविधया चतुर्विंशतित्वमूह्यम् । उदाहरणानि त्वतिविस्तरभयानोदाहृतानि स्वयमूह्यानि ॥ ५॥ . इति श्रीनारायणभट्टविरचितायां वृत्तरत्नाकरटीकायां पदचतुरूप्रकरणम् ॥
SR No.023482
Book TitleVruttaratnakar
Original Sutra AuthorN/A
AuthorKedar Bhatt, Narayan Bhatta, Vidyanatha Shastri
PublisherJai Krishna Das Hari Das Gupta
Publication Year1927
Total Pages306
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy