________________
नारायणभट्टीसहितवृत्तरत्नाकरेविरचितान्विषमान्विषमसङ्ख्याकाक्षरांश्वरणान्भजति, एवंभूते प्रथमोक्ते पदचतुर्वाभिधे वृत्ते इति सर्वोऽनुवादः, गुरुयुग्मं निधनेऽन्ते यस्य तादृशे सति । स्वार्थे कः । इतीत्थं प्रकार आङा उपसर्गेण सहितः पीडः आपीडो भवतीत्यर्थः । कीद्वक । लघुकृतपदरचनया यतिर्यस्मिन् , अन्ते गुरुद्वयस्य नियतत्वादितरभागे लघुविरचितत्वम् । श्रुतिसुखकरी च स्वेच्छया यतिः कार्येति सूचनाय यतिग्रहणम् । विशिष्टानुवादश्चाष्टाद्यक्षरेष्वेव पादेष्वन्ते गुरुद्वयं कार्यम् , न तु ततोऽतिरिक्तमिति सूचनार्थः । आपीड इति संज्ञायाश्छन्दस्यप्रवेशादाङा सहित इत्युक्तिरीतिः । पूर्वोक्तरीत्यापीडे चतुर्विवंशतिप्रकारप्रथमभेदोदाहरणमिदम् । श्रापीड एव सप्तमाटमैकादशान्भेदान्व्युत्पाद्यव्युत्पादनाय व्युत्पादयति प्रथमेति त्रिभिः॥२॥
प्रथममितरचरणसमुत्थं श्रयति स यदि लक्ष्म ॥ इरतदितरगदितमपि यदि च तुर्य
चरणयुगलकमाविकृतमपरामिति कलिका सा ॥३॥ तुर्यशब्देन श्लोकचतुर्थीशः पाद उच्यते । ततश्च प्रथमं तुर्य प्रथमश्च. रणः इतरचरणसमुत्थं स्वाऽनन्तरद्वितीयचरणस्थं लक्ष्म लक्षणं श्रयति, श्रवलम्बते इतरत्तयं द्वितीयपादे इतरगदितं स्वाऽव्यवहितप्रथमचरणगतं लक्षणं श्रयति, अपरं चरणद्वयं तृतीयचतुर्थरूपमविकृतं यथावस्थितमित्येवंविधा स पापीड एव सा प्रसिद्धा कलिका। यद्वा स पापीडः प्रथम प्रथमस्थाने प्रथमपादे द्वितीयपादलक्षणं श्रयति सा कलिका । द्वादशाक्षराष्टाक्षरषोडशाक्षरविंशत्यक्षः पादैः क्रमेण घटितेति सम्पिण्डितार्थः । पैङ्गले त्वेतस्यो मअरीति नाम ।। ३॥
द्विगुरुयुतसकलचरणान्ता मुखचरणगतमनुभवति च तृतीयः॥ अपरमिह हि लक्ष्म
प्रकृतमखिलमपि यदिदमनुभवति लवली सा॥४॥ तृतीयश्चरणो मुखचरणगतं प्रथमचरणस्थं लक्षणमनुभवत्यवलम्बते । अपरं पादत्रयं प्रकृतमखिलं लक्ष्म पापीडलक्षणं श्रयति तदा लवली नाम । क्रमेण द्वादशाक्षरषोडशाक्षरविंशत्यक्षरपादवतीत्यर्थः । गु. रुदययुक्तचतुष्टयान्तेति वृत्तपूरणार्थं सामान्यलक्षणमेवानूदितम् ॥ ५ ॥