________________
चतुर्थोऽध्यायः ।
श्रोजे तपरौ भरौ जरौ गुरू समे ज य. कीर्तिता बुधरियं तु षट्पदाख्या ॥
रोजरौ जसंयुतौ पदे पदेऽथ युग्मे तरौ जरौ गुरुर्मृगी यवानी ॥ युजि नभभाः समकेऽपि तु, नयुगरयुगलं तदा कौमुदी ॥ यदि विषमे भवतो नजौ जरौ, सजयाः समे जगुरू मञ्जुसौरभम् ॥ तथाऽष्टाविंशतिर्लघव एको गुरुरिति विषमः पादः, त्रिंशल्लघव एको गुरुश्चेति समः सा शिखा नाम । इयमेव विपर्यस्तपादा खञ्ज नाम | एते द्वे अपि द्विखण्डकप्रकरणोक्तशिखाखञ्जयोश्छन्दसोः मङ्गीकृत्य यथाश्रुतव्याख्यानेन तदतिरिक्ते श्रत्र ज्ञेये । यदा त्वस्मदुक्तप्रकारेण तत्र शकलशब्दं पादपरमाश्रित्य व्याख्यायते [ तदा] तत्रैवैतयोरुक्तत्वान्नात्र वक्तव्यता भवति ॥ १२ ॥ (१)
षष्ट्यक्षरता
इति श्रीमद्भट्टरामेश्वरसूरि सूनुनारायणभट्टविरचितायां वृत्तरत्नाकरव्याख्यायामर्धसमाध्यायश्चतुर्थः ॥
११३
(१) अत्राऽध्याये यानि जातिद्वय सङ्करेणोत्पन्नानां वृत्तानां लक्षणानि प्रतिपादितानि तेष्वर्धसमत्वमेव । यत्र तु पुनर्जातिद्वयसङ्करो नास्ति तेषूपजातित्वम् । अत्रोक्तिस्तु अर्धसमवृत्तलक्षणकथनप्रसङ्गे अर्धसमसाश्यहेतुना । यद्युच्येत 'उपजातीनामर्धसमवृत्तेष्वन्तर्भावात् वृत्तानाम
समत्व भेद स्वीकारेणैव कार्यनिर्वाहे, उपजातिषु वाऽर्धसमवृत्तानामन्तर्भावात् कार्यनिर्वाहे सति किमर्धसमत्वोपजातिवस्तुद्वयस्वीकारेणेति । तत्रोच्यते । श्रयि छन्दः शास्त्रविदः ! इदं हि पांशुपूरणं युष्माभिः स्थूलदृशां चक्षुष्षु विधातुं शक्यं न सूक्ष्मदृशाम् । यद्भवद्भिरुच्यते 'उपजातीनामसमवृत्तेष्वन्तर्भावाद् वृत्तानामर्धसमत्वभेदस्वीकारेणैव कार्यनिर्वाहे इति तदसत्, उपजातीनामर्धसमवृत्तेष्वनन्तर्भावात् । अर्धसमभेदस्वीकारेऽपि कार्याऽनिर्वाहात् । यद्यपि यत्रोपजातिषु पादद्वयमेकलक्षणलक्षितम् । अपरपादद्वयं च भिन्नैकलक्षणघटितं तासामुपजातीनाम
साम्यादर्धसमवृत्तेष्वन्तर्भावः सम्भवति । तथाऽपि यत्र चरणत्रयस्यैकं लक्षणं एकचरणस्य च भिन्नं लक्षणं तत्रार्धसाम्याभावात् नार्धसमत्वं वक्तुं शक्यते । सर्वेषां चरणानां भिन्नलक्षणलक्षितत्वाऽभावेन विषमत्वमपि न | चरणचतुष्टयस्यैकलक्षणलक्षितत्वाऽभावेन च युष्मन्मते समवृत्तत्वमपि नास्ति, तदेवं तत्र कयापि रीत्या भवतां पलायितुमशक्यतया उपजातिः शरणीकरणीयैव । तत्स्वीकारे च उपजातिलक्ष
१५