SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ प्राकृतपिङ्गलसूत्रम् । अन्ते देयो गन्धवर्णोऽक्षराणि षोडश चञ्चला विनिर्मिता फणीन्द्रेणैतद्दुर्लभम् ॥] भोः शिष्याः, यत्रादौ सुपर्णो रगणो लघुमध्यमो गणो दीयते । तो ततः - एकः पयोधरो जगणो गुरुमध्यमो गणः हिण्णिरूअ पश्च एवंरूपाणि पञ्च सुपर्णपयोधरानन्तरं रंगण - जगणरगणास्त्रयोऽपि गणा देयाः । एवं (पश्च) वा गुरवः सर्वे, लो लघवश्च तैर्मनो हरेति चञ्चलाविशेषणम् । अन्ते गणपञ्चकान्ते गन्धो लघुर्वर्णो यत्र ( दीयते ) । पादे चाक्षराणि षोडश यस्याः सा फणीन्द्रेण चञ्चला विनिर्मिता । तदेतदतिदुर्लभं चञ्चलाभिधानं छन्दो विजानीतेति ॥ वाणीभूषणे तु प्रकारान्तरेणोक्तम् — ' तूर्यताल पक्षिराजमेरुहारनायकेन चामरध्वजेन चापि वर्णिता सुपर्णकेन । वर्णितातिसुन्देरण पन्नगेन्द्रपिङ्गलेन चञ्चला चकोरचारुलोचने सुमङ्गलेन ॥' समानिकापदद्वयेन चञ्चलेति फलितोऽर्थः ॥ ग्रन्थान्तरे चित्रसङ्गमिति नामान्तरम् ॥ अतएव छन्दोमञ्जर्याम् - 'चित्रसङ्गमीरितं समानिकापदद्वयं ' इत्युक्तम् ॥ चञ्चलामुदाहरति — जहा (यथा ) - २ परिच्छेदः ] कण्णपत्थ ढुकु लुकु सूर वाणसंह एण घाव जाहु ताहु लागु अन्धआरसंचरण । १८१ एत्थ पत्थ सट्टिवाणकण्णपूरिछहुएण पेक्खि कण्ण कित्ति धण्ण वाण सव्व कट्टिएण || २०७|| [कर्णपार्थौ रथयुक्तौ लीनः सूरो बाणसंघातेन प्रहारो (क्षतं) यस्य कस्यापि लग्नोऽन्धकारसंचयेन । अत्र पार्थेन षष्टिर्वाणाः कर्ण पूरयित्वा व्यक्ताः प्रेक्ष्य कर्णेन कीर्तिधन्येन बाणाः सर्वे कर्तिताः ॥ ] कश्चित्कविः कर्णार्जुनयोर्युद्धमुपवर्णयति — उभावपि कर्णपार्थौ सङ्ग्रामभूमावेकदा दुक्कु रथेन युक्तौ जातावित्यर्थः । अस्मिन्नवसरे सूर्यो दिनकरोऽपि बाणसंघातेन लुक्कु लीन: शरजालाच्छादितो भूदित्यर्थः । अत एवान्धकारसंचयेन शब्दवेधित्वात्तयोर्यस्य कस्यापि घावः प्रहारो लग्नः । एत्थ अत्र व्यतिकरेऽनयोर्मध्ये पार्थोऽर्जुनस्तेन कण्णपूरि आकर्ण पूरयित्वा षष्टिर्वाणास्त्यक्ता: । अन्तरा पततस्तान्बाणान्प्रेक्ष्य । प्राकृते पूर्वनिपातानियमात् । धन्या कीर्तिर्यस्यैवंविधेन कीर्त्या धन्यस्तेन वा, कर्णेन राधेयेन ते सर्वे बाणा: • कर्तिताः खण्डशः कृता इत्यर्थः ॥ यथा वा [णीभूषणे ] - 'आलि याहि मञ्जुकुञ्जगुञ्जितालिलालितेन भास्करात्मजाविराजिराजितीरकाननेन । शोभितस्थलस्थितेन संगता यदूत्तमेन १. 'मण्डिता' भूषणपुस्तकस्थपाठः.
SR No.023478
Book TitlePrakrit Pingal Sutrani
Original Sutra AuthorN/A
AuthorLakshminath Bhatta, Sivdatta Pt
PublisherTukaram Javaji
Publication Year1894
Total Pages256
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy