SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ काव्यमाला। मिनि वृत्तवरम् । नीलमिदं फणिनायकगायकसंलपितं पण्डितमण्डलिकासुखदं सखि कर्णगतम् ॥' नीलमुदाहरति-जहा (यथा) सज्जिअ जोह विवडिअकोह चलाउ धणू __पैक्खरु वाह चमूणरणाह फुलन्ततणू । पत्ति चलन्त करे धरि कुन्त सुखग्गकरा .. कण्णणरेन्द सुसज्जि चलन्त चलन्ति धरा ॥ २०५॥ [सज्जिता योधा विवर्धितक्रोधाश्चालयन्ति धनुः । .. संनद्धो वाहश्चमूनरनाथः स्फुरत्तनुः । पत्तयश्चलन्ति करे धृत्वा कुन्तान्सुखड्गकराः कर्णनरेन्द्रे सुसज्जीभूय चलति चलन्ति धराः ॥] कश्चित्कविः कर्णनरपतिप्रयाणमुपवर्णयति-विवर्धितक्रोधा योधाः सुभटाः सज्जिताः संनद्धाः सन्तः क्षिपन्ति धनुः । अथ च-वाहोऽपि पक्खरु संनद्ध इत्यर्थः । ततश्च स्फुरत्तनुर्वीररसावेशात् । एवं चमूनरनाथोऽपि चलितः । अनन्तरं च सुखड्गकराः करे कुन्तान्धृत्वा पत्तयोऽपि चलन्ति । एवं सुतरां सज्जीभूय कर्णनरेन्द्रे चलति सति धराः पर्वता अपि चलन्ति । पर्वतानां क्षोभोऽभूदिति भावः ॥ यथा वाणीभूषणे]–'सुन्दरि सुन्दरिपौ नतिशालिनि किं कुरुषे मानिनि मानिनि काममिदं हृदयं परुषे । हारिणि हारि: णि ते हृदये निहितो दयितो भाविनि भाविनिवासिमनोऽस्य चिराय यतः ॥' उध्वणिका यथा-su, su, su, su, su, s, १६४४=६४ ॥ नीलो निवृत्तः ॥ अथ चञ्चलाछन्दःदिज्जिआ सुपण्ण आइ एक तो पोहराई हिणिरूअ पञ्च वैङ्कसव्वलो मणोहराई । अन्त दिज्ज गन्धवण्ण अक्खराइ सोलहाइँ चञ्चला विणिम्मिआ फणिन्दु एहु दुल्लहाइँ ॥ २०६ ॥ दीयते सुपर्ण आदावेकस्ततः पयोधर एवंरूपाणि पञ्च वक्रसर्वलैर्मनोहरा । . १. 'प्रखरवाहवः' रवि०. टि. २. 'पफूलधणू (प्रफुल्लधनुषः) रवि० टि०. ३. 'सुसजिअविन्द (सुसज्जितवृन्दे)' रवि०. ४. “एण्णरूअ' रवि०. ५. 'वक्रशबला' इति तु परमार्थः. 'पञ्चचक सव्वलो मणोहराई (पञ्च चक्रा सर्वलोकमनोहरा)' इति रवि..
SR No.023478
Book TitlePrakrit Pingal Sutrani
Original Sutra AuthorN/A
AuthorLakshminath Bhatta, Sivdatta Pt
PublisherTukaram Javaji
Publication Year1894
Total Pages256
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy