SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ अलङ्कारशेखरेश्रीपादस्तु-'सममिन्याहारोपमाप्यस्ति' इत्याह । सा यथा प्रकृयैव मनोहारि वदनं हरिणीदृशः। चन्द्रे हादकता कस्मात् पयः केन परिष्कृतः ॥ अत्र सर्वत्र-- न्यूनाधिकत्वशङ्का चेद्विभागेषु तदिष्यताम् । किंचिद्विशेषमादाय भेदोऽभेदश्च कश्चन ॥ काचित्समस्तान्वयिनी क्रियामात्रान्वया परा । विशेषणान्वया काचिदुपमा कापि तत्परा ॥ अत्र च-- न्यूनता साम्यमाधिक्यं यद्यदेवाभिधीयते । अहो ! काव्यस्य माहात्म्यं समतैव प्रतीयते ॥ तदाह राजशेखरः समानमधिकं न्यून सजातीयं विरोधि च । सकुल्यं सोदरं कल्पमित्याद्याः साम्यवाचकाः॥ अलङ्कारशिरोरत्नं सर्वस्वं काव्यसम्पदाम् । उपमा कविवंशस्य मातैवेति मतिर्मम ॥ इत्यलङ्कारशेखरे अर्थालङ्कारे उपमामरीचिः। अतिसाम्यादपढ्नुत(१)भेदयोरुपमानोपमेययोरभेदप्रयो रूपकम् । यदाह तद्वपकमभेदो यदुपमानोपमेययोः। इति । दण्डी च-- उपमैव तिरोभूतभेदा रूपकमुच्यते(२)। इति । तद्विभजते(१)दपहनुतभेदप्रत्ययो रूपकम-इति गपु० पाठः। (२) मिष्यते इति कपु० पाठः ।
SR No.023477
Book TitleAlankar Shekhar
Original Sutra AuthorN/A
AuthorAnantram Shastri Vetal
PublisherKrishnadas Haridas Gupta
Publication Year1927
Total Pages152
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy