SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ चतुर्थरत्ने बितीयमरीचिः । . नागेन्द्रहस्तात्वचि कर्कशत्वादेकान्तशैत्यात् कदलीविशेषाः। लब्ध्वापि लोके परिणाहि रूपं जातास्तर्वोरुपमानबाडाः ॥ यत्राऽसंसृष्टत्वज्ञानेन संसर्गमारोप्य साम्यप्रसन्जनम्-सा भूतोपमा । यथा-- ... उभौ यदि व्योम्नि पृथक्प्रवाहावाकाशगङ्गापपसः पतेताम् । तदोपमीयेत तमालनीलमामुक्तमुक्तालतमस्य वक्षः ॥ यत्रोपमानस्यैवोपमेयता-सा विपर्ययोपमा । यथा-- अथ मुललितयोषिभ्रूलताचारुशृङ्गं रतिवलयपदाङ्के चापमालज्य कण्ठे । सहचरमधुहस्तन्यस्तचूताङ्कुरास्त्रः शतमखमुपतस्थे प्राञ्जलिः पुष्पधन्वा । इत्यादौ । पत्रोपमानोपमेययोः संशयकोटिता-सा संखयो. पमा । यथाकिमिन्दुः कि पद्म किमु मुकुरबिम्बं किमु मुखं किमब्जे कि मीनौ किमु मदवाणी किमु दृशौ । खगौ वा गुच्छौ वा कनककळशौ वा किमु कुचौ तडिद्वा सारा वा कनकलतिका वा किमवला ॥ यत्रेतरव्यात्या साम्यलाभः-सा नियमोपमा । यथा-- कस्ते पुरन्दरादन्यः प्रतिमल्लो भविष्यति । ऋते सहस्रकिरणात् त्वत्प्रतापसमो हि कः । यत्रोपमानान्तरविरहतात्पर्येण स्वसाम्यम्-सा स्वोपमा । यथा आपूर्णितं पक्ष्मलमक्षियुग्मं प्रान्तयुतिश्चैत्यजितामृतांशु । अस्या इवास्याश्वलदिन्द्रनीलगोलाऽमळश्यामछतारतारम् ।। अभेदानुमानवदिह भेदो द्रष्टव्यः । यत्रोपमेवमुपमानविका. रतयोच्यते-सा विक्रियोपमा । यथा-- हरिणादथ तन्नयनादथ पद्यात्पनपत्राच्च । .. आहृत्य कान्तिसारं विधिरसृजत् सुभ्रषो दृष्टिम्।।
SR No.023477
Book TitleAlankar Shekhar
Original Sutra AuthorN/A
AuthorAnantram Shastri Vetal
PublisherKrishnadas Haridas Gupta
Publication Year1927
Total Pages152
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy