SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ 78 अलंकारमणिहारे न्मन्ये । कथमपरथा सदाख्योऽप्येष हि वैहायसी गतिं विन्देत् ॥ २१२१॥ हे जननि! तारकाणां उड्नां आपदादिकृछ्रादुत्तारकाणामिति च गम्यते । निकर: तावकनखानि गोभिः वाग्भिः किरगैश्च व्यदूदुषत् दूषयति स्मेति मन्ये । अपरथा एष तारकनिकरः सदाख्यः साधुरित्याख्यावानपि सदित्याख्या नाम यस्य स इति वस्तुस्थितिः ‘भं नक्षत्रं तारकं सत्' इत्यनुशासनात् । वैहायसी पक्षिसंबन्धिनी गतिं कर्मफलं कथं विन्देत् ‘वाचिकैः पक्षिमृगताम्' इत्यनन्तरपूर्वोदाहरणदर्शितप्रमाणेन वाचिककर्मदोषफलतया प्रतिपादिता वैहायसी गति: कथं सत्वेन प्रतीतस्यापि संभवेदिति भावः । वैहायसीं अन्तरिक्षभवां गतिं गमनमिति तु तत्त्वम् । 'विहायश्शकुने पुंसि गगने पुनपुंसकम्' इति मेदिनी । अत्र तारकनिकरस्य वैहायसगतिप्राप्तयन्यथानुपपत्या लक्ष्मीचरणनखकर्मकवाकरणकदूषयितृत्वं संभाव्यते ॥ यथावाअमलद्विजस्तव स्मितवसुहारी मानसेऽभवनम् । कथमन्यथा प्लवैस्सह वसेदसावन्त्यजत्वमासीदन् ॥ २१२२॥ ___ अमलद्विजः हंसः निर्मलो विप्रश्चेत्यपि गम्यते। मानसे मनसि तव स्मितस्य वसूनि धनानि हरतीति स्मितवसुहारी अभवत् नूनम् । अन्यत्र स्मितस्य वसुः रश्मिः स इव हारी मनोहरः स्मितवद्विशद इत्यर्थः । मानसे तन्नानि सरसि अभवत् सत्तामलभतेति योजना। हंसानां मानसनिवासित्वादिति भावः । अन्यथा एवं मानसकर्मदोषविरहे अन्त्यजत्वमा
SR No.023474
Book TitleAlankar Manihar Part 04
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1929
Total Pages330
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy