SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ अर्थापत्तिसरः (११६) 79 79 सीदन् 'मानसैरन्त्यजातिताम्' इति प्रागुदाहृतवचनप्रतिपादितमानसकर्मदोषफलभूतमन्त्यजातित्वं प्राप्नुवन् सन् अन्तिमजकारवत्तामिति तु तत्त्वम् । प्लवैः चण्डालैः कारण्डवाख्यविहगैश्च कथं सह वसेत् । ‘चण्डालप्लवमातङ्गदिवाकीर्तिजनंगमाः, मद्गः कारण्डवः प्लवः' इति चामरः । 'हंसकारण्डवाकीर्णाम्' इत्यादौ सर्वत्र हंसस्य कारण्डवसहचारित्वं हि वर्ण्यते 'प्लवस्स्यात्प्लवने मेळे भेकेऽवौ श्वपचे पशौ, इत्युपक्रम्य 'कारण्डवाख्यविहगे' इति मेदिनी च । एवंचोपदार्शतोदाहरणत्रयेण करणत्रयनिर्वर्तितकर्मदोषफलानि क्रमेण दर्शितानि । अत्रामलद्विजस्यान्त्यजत्वप्राप्तयन्यथानुपपत्त्या मानसिकलक्ष्मीस्मितवसुचौर्यरूपदोषवत्ता कल्पिता॥ यथावा अग्रकराहितामह तव कटकं कर्कटकतां गतं मन्येऽहम् । कथमन्यथाऽस्य कमले सिंहमुखत्वं शुचिद्युतिपदत्वं वा ॥ २१२३ ॥ हे अम्ब! तव अग्रश्चासौ करश्च अग्रकरः कराग्रमित्यर्थः 'हस्ताग्राग्रहस्तादयो गुणगुणिनोर्भेदाभेदात्" इत्यवयवावयविनोरभेदः । तस्मिन् आहितं न्यस्तं कटकं वलयं कर्कटकतां कर्कटकराशितां गतं मन्ये 'स्यात्कुळीरः कर्कटकः' इत्यमरः । 'स्यात्कर्कटः कर्कटकश्च कर्की' इति कर्कटराशिनामपर्यायेषु विद्यामाधवः । पक्षे अग्रे मुखभागे कर् इति वर्णसमुदयेन आहितः कर् आहितो यस्मिन्निति वा। कटकशब्दः. कर्कटकतां प्रपद्यत इत्यर्थः । अन्यथा कर्कटकत्वायोगे अस्य कटकस्य कथं सिंहमुखत्वं सिंहराशेः पूर्वगण्यत्वं स्यात् सिंहराशेः कर्कटकराश्यनन्तरभावित्वादिति भावः। सिंहस्य मुखमिव मुखं यस्य
SR No.023474
Book TitleAlankar Manihar Part 04
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1929
Total Pages330
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy