SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ शब्दप्रमाणसर: (११५) 59 तत् न मिथ्या खलु अनयोरुक्तशब्दयोः नवर्णेनैव भेदो नान्यवर्णरित्यर्थान्तरमपि चमत्कारि। अत्र भगवतो नीलतोयदनीलस्य हरिन्मणिहरिमण्युभयसादृश्यवर्णनाय तयोर्वर्णभेदाभाववर्णनरूपेऽभिमतेऽर्थे 'कमलासंपदोः कृष्णहरितो गसर्पयोः' इत्यारभ्य 'दानवासुरदैत्यानामैक्यमेवाभिसंहित।' इत्यालंकारिकोक्तिः प्रमाणभावं प्रापिता॥ एवं शास्त्रान्तरलौकिकवाक्यरूपाण्यपि शब्दप्रमाणान्युदाहार्याणि । 'आचारश्चैव साधूनामात्मनस्तुष्टिरेव च' इति प्रमाणप्रतिपादिताचारात्मतुष्टयोरपि मीमांसकोक्तधर्मप्रमाणयोर्वेदशब्दानुमापकतया शब्दप्रमाण एवान्तर्भावः ॥ तत्राचारप्रमाणं यथा सौरिस्स कथं पापो वारे यस्याचरन्ति तव तुष्टयै । व्रतममितमहिगिरीश्वर सदसच विभाव्यमिह सदाचारात् ॥ २०९१॥ ___ हे अहिगिरीश्वर! सः सौरिः शनिः कथं पापः । तस्य ज्यौतिषोक्तं पापत्वं न घटत इति भवः । तत्र हेतुमभिप्रयन्नाहयस्योति । यस्य शनेः वारे तव तुष्ठयै आमतं व्रतं उपवासादेनियम आचरन्ति सन्त इति शेषः । कथमाचारादेव तस्यापापत्वं निर्णेयमित्यत आह-सदति । इह लोके सत् साधु असच असाधु वा सतां आचारादेव विभाव्यं निर्णेयं हि । स्ववारे सतां श्रीनिवासप्रीणनव्रताद्याचारदर्शनात्सोरेः पापत्ववाचोयुक्तिरयुक्तेति भावः । अत्र शनेरपापत्वनिर्णये तद्वारे व्रताचरणरूपस्सदाचारः प्रमाणतयोपन्यस्तः। 'आचारो नाम शिष्टानामभिमतो दयादाक्षिण्यादियुको वृत्तिविशेषः' इति माधवीये ॥ ALANKARA IV.
SR No.023474
Book TitleAlankar Manihar Part 04
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1929
Total Pages330
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy