SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ 60 अलेकारमणिहारे अत्र आत्मतुष्टिप्रमाणं यथाभक्तिः प्रपत्तिरथवा भवदाप्तेस्लाधने स्मृते तदपि । प्रपदन एव विशेषात्परितोषोऽस्मादृशां वृषाद्रिमणे ॥ २० ९२ ॥ भक्तया परमया वाऽपि प्रपत्त्या वा महामुने । प्राप्योऽहं नान्यधा प्राप्यो मम कैंकर्यलिप्सुभिः ।। इति विकल्पितयोक्तिप्रपत्योः प्रपदन एवास्मादृशां प्रवृत्तावात्मतुष्टिरूपं प्रमाणमुपन्यस्तम् ॥ एवं श्रुतिलिङ्गादिकमपि मीमांसकोक्तं प्रमाणं संभवदिहोदाहार्यम् ॥ . तत्र श्रुतिर्यथा नाम्नैव हरिरसि त्वं दुरितं हरसे किमत्र लिङ्गेन। स्वकरप्रकोष्ठ कङ्कणसमीक्षणे न खलु दर्पणापेक्षा ॥ २०९३ ॥ अत्र श्रीनिवासस्य हरिरित्यभिधानश्रुत्या सकलदुरितहारित्वं समर्थितम् । 'श्रुति म निरपेक्षरवः' इत्याहुस्तन्त्रविदः ॥ यथावाधसे नाभयमुद्रामायं ब्रह्मेति यच्छ्रतोऽसि हरे। श्रुत्या परमे तत्त्वे निर्णीते को नु लिङ्गमाद्रियते ॥ २०९४ ॥ - हे हरे श्रीनिवास ! त्वं अभयमुद्रां ऊर्धाग्राङ्गुळिकपाणितलप्रदर्शनरूपामभयसूचनी मुद्रां न धत्से न धारयसे । श्रीनिवासस्यावाक्कृताग्राङ्गुळिककरतलप्रदर्शनरूपवरदानसूचकमुद्राव ह ने न
SR No.023474
Book TitleAlankar Manihar Part 04
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1929
Total Pages330
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy