________________
58
अलंकारमणिहारे
यः हंसः यतिविशेषः भानुश्च । हरौ भगवति विषये दृष्टिः उपासनात्मकशानं यस्य स तथोक्तः। पक्षे हरौ सिंहराशौ दृष्टिर्यस्य तथोक्तः कुम्भराशिस्थस्सन्निति भावः । तत्रावस्थितस्यैव तस्मात्सप्तमे सिंहे दृष्टिसंभवात् ‘पश्यन्ति सप्तमान् सर्वे' इति हि ज्योतिर्विदः। सः यतिविशेष: महार्चिस्सक्रियाञ्चितः महत्या अर्चिषः आतिवाहिकाद्यभूतस्याग्नेः सक्रियया सत्कारण अञ्चितः युक्तः क्रमतः ‘अर्चिषोऽहरह्न आपूर्यमाणपक्षम्' इत्याद्युक्तदिनपूर्वपक्षादिक्रमेण उच्चपदस्थः परस्मिन् पदे स्थितः भविता। पक्षे सः कुम्भराशिगतो भानुः क्रमतः मीनराशिप्राप्तिपूर्वकं सक्रियाश्चितः संश्चासौ क्रियः मेषराशिः 'क्रियताबुरुजतुमकुलीरलेयपाथोनजूककौर्ष्याख्याः' इति ज्योतिर्विद्भिः मेषादीनां क्रमेण क्रियादिसंज्ञाया उक्तत्वात् । तस्मिन् अश्चितः गतस्सन् उच्चपदस्थः उच्चस्थानस्थितः 'अजवृषभ' इत्यादिना मेषस्य तदुच्चस्थानतोक्तिः। अतएव महार्चिः महादीप्तिः ‘स्वोच्चे प्रदीप्तः' इति विद्यामाधवोक्तेः। भविता । स्पष्टमन्यत् । अत्राप्यभिमतेऽर्थे ज्योतिषस्य प्रमाणता ॥
HETAH
यथावा
कवयस्तवोपमानं कथयन्ति हरिन्मणिं हरिमणिं च । अनयोर्न वर्णभेदो यदुच्यते कृष्ण तन्न खलु मिथ्या ॥ २०९०॥
हे कृष्ण! नीलनीरदश्यामलोत भावः । कवयः हरिन्मणिं मरकतं हरिमाणं इन्द्रनीलं च तव उक्तवर्णस्य भवतः उपमानं कथयन्ति कथं हरिनीलवर्णयोरुतरत्नयोश्श्यामलवर्णस्य तव चोपमानोपमेयभाव इत्याशङ्कय समाधत्ते-अनयोरिति । अनयोः हरिन्मणिहरिमण्योः वर्णभेदः नेति यदुच्यते कविभिरिति शेषः ।