SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ 50 - अलंकारमणिहारे ऋतुनयादिति भावः । 'निरञ्जन: परमं साम्यमुपैति' इति श्रुतिरत्रानुसंधेया। यत् यस्मात्कारणात् पदज्ञाः व्याकरणविदः अनुबन्धेन 'ऋहलोर्ण्यत्' इत्यादौ कृतेन इत्संज्ञार्थकणकाराद्यनुबन्धेन कृतं असारूप्यं ‘पोरदुपधात्' इत्यादिविहितस्य यतः असरूपत्वं न भवतीति वदन्ति 'नानुबन्धकृतमसारूप्यम्' इति परिभाषणादिति भावः । तथाच शप्यं लभ्यमित्यादौ शापलभ्यादेः 'पोरदुपधात्' इत्यनेन विहितो यत्प्रत्यय: 'ऋहलो र्ण्यत्' इति विहितस्य ण्यतः बाधक एव भवति । न तु 'वा सरूपोऽस्त्रियाम्' इत्यनेन असारूप्यनिबन्धनवैकल्पिकबाधकत्वं प्राप्नोतीत्यवधेयम् । अत्र श्रुतिस्मृतिशतप्रमाणसद्भावेऽपि चमत्कारातिशयाय 'नानुबन्धकंतमसारूप्यम्' इति शाब्दिकपरिभाषायाः श्लेषेणार्थान्तरं परिकल्प्य प्रमाणीकरणम् ॥ यथावा त्वां परमवरं चान्यं समौ वदन्नापराध्यति मुरारे । पूर्वपरावरसूत्रे परावरौ पाणिनिर्यदाह समौ ॥ २०७८ ॥ उत्कृष्टं त्वां त्वत्तोऽपकष्टेन देवतान्तरेण तुल्यं वदतो जनस्यापराधाभावरूपेऽर्थे 'पूर्वापरावरदक्षिणोत्तर' इत्यादिपाणिनीयस्मृतेः प्रमाणतयोपन्यास: । पूर्वोदाहरणेषु पाणिनिस्मृतिरभिमतार्थे प्रमाणीकृता। इह तु यस्तु नारायणं देवं सामान्येनाभिमन्यते । स याति नरकं घोरं यावच्चन्द्रदिवाकरौ ॥ यस्तु नारायणं देवं ब्रह्मरुद्रादिदैवतैः । समत्वेन विजानाति स पाषण्डीति कथ्यते ॥
SR No.023474
Book TitleAlankar Manihar Part 04
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1929
Total Pages330
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy