SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ 51 शब्दप्रमाण सर : (११५ ) इत्याद्युक्तरीत्या भगवतो नारायणस्य देवतान्तरतुल्यकक्ष्यतावर्णनपरजननिन्दापरेण अनभिमतार्थे प्रमाणीकृतेति वैलक्षण्यम् ॥ यथावा तद्विष्णोः पदमव्ययमाम्नातमनव्ययं स्वराद्यं तु । एवं सति पाणिनिना स्वरादिपदमव्ययं कथमभाणि ।। २०७९ ॥ तत् विष्णोः पदं ' तद्विष्णोः परमं पदम्' इत्याम्नातं स्थानं अव्ययं अनश्वरं आम्नातं ' तदक्षरे परमे व्योमन्' इत्यादिश्रुत्या प्रतिपादितम् । स्वराद्यं स्वर्गादिकं पदं स्थानं तु अव्ययं न भवतीत्यनव्ययं नश्वरं आम्नातम् । एवं सति एवं स्थिते पाणिनिना स्वरादि स्वर्गादिकं पदं स्थानं, पक्षे स्वरादिगणपठितं पदं अव्ययं अनश्वरं अव्ययसंज्ञकं च कथमभाणि 'स्वरादि निपातमव्ययम्' इति सूत्रेणेति भावः ॥ यथावा स्वामिन्नैश्वर्ये तव केन निपातः क्ववाऽपि किं दृष्टः । एवं स्थितेऽस्य पाणिनिराह निपातं कथं न्विति विचिन्ता ॥ २०८० ॥ हे स्वामिन् हे सर्वेश्वर ! ऐश्वर्ये जगदीश्वरत्वे विषये तव 'एष सर्वेश्वर एष भूताधिपतिः' इति श्रुतपारमैश्वर्यस्य तव निपातः भ्रंशः केन पुरुषेण व वाsपि किं दृष्टः न दृष्ट एवेत्यर्थः । एवं स्थिते वस्तुस्वरूपे एवमवस्थिते पाणिनिः अस्य एवंविधैश्वर्यवतस्तवेत्यर्थः । पक्षे अस्य स्वामिन्निति शब्दस्येत्यर्थः । निपातं भ्रंशं, अन्यत्र ऐश्वर्यरूपेऽर्थे लक्षणाभावे शब्दसाधुत्वाय
SR No.023474
Book TitleAlankar Manihar Part 04
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1929
Total Pages330
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy