SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ शब्दप्रमाणसर: (११६) स्वोक्तार्थे शाब्दिक परिभाषां प्रमाणयति शाब्दिकेति । शाब्दिक - मुनिः पतञ्जलिः परान्नित्यादप्यन्तरङ्गमधिकबलमाह । 'परनित्या - न्तरङ्गापवादानामुत्तरोत्तरं बलीयः' इति परिभाषणादिति भावः ॥ 49 यथावा कृपया तवाच्युताखिलकर्म विनाशोन्मुखं ततोऽहमघम् । तद्वशगोऽपि न कुर्यामकृतव्यूहा हि पाणिनीयास्युः || २०७६ ॥ हे अच्युत ! तव कृपया मम अखिलं कर्म विनाशोन्मुखं, ततः कारणात् तद्वशगोऽपि कर्मवश्योऽपि अहं अघं उत्तराघं न कुर्याम् । हि यस्मात् पाणिनीयाः अकृतव्यूहाः 'अकृतव्यूहाः पाणिनीया:' इति परिभाषितत्वादिति भावः । ' निमित्तं विनाशोन्मुखं दृष्ट्वा तत्प्रयुक्तं कार्यं न कुर्वन्ति' इति परिभाषार्थः । अत्र विनाशोन्मुखकर्मानुरोधेन तत्प्रयुक्तोत्तराघस्याकरणे पाणिनीय परिभाषायाः प्रमाणीकरणात्कवेः पाणिनीयताऽपि प्रकटिता ॥ यथावा येषां त्वयाऽनुबन्धस्तेषां भगवन् कथं स्वसारूप्यं स्यात् । यदिह वदन्ति पदज्ञा न ह्यनुबन्धेन कृतमसारूप्यमिति ॥ २०७७ ॥ - हे भगवन् ! येषां जनानां त्वया सह अनुबन्धः संबन्धः भवति भागवतत्वं भवतीत्यर्थः । यद्वा निरवशेषाविद्यानि वृत्तिपूर्वकं परमे व्योनि संश्लेषः भवतीत्यर्थः । तेषां जनानां असारूप्यं त्वदसरूपता कथंनु स्यात् शेषत्वेन त्वया परिगृहीतानां त्वामेव ध्यायतां त्वत्सारूप्यं चतुर्भुजत्वादिकं स्यादेव । यथा
SR No.023474
Book TitleAlankar Manihar Part 04
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1929
Total Pages330
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy