SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ 302 अलङ्कारमणिहारे यत्किञ्चिदिष्टसिद्धयर्थ य उद्योगो वितन्यते । अनिष्टन विना तस्य सिद्धिश्च सममुच्यते ॥ __(४२) विचित्रम् इष्टैषिणेष्टसिद्धथै तद्विपरीतं क्रियेत चेत् । प्रयवस्तामिमां पाहुर्विचित्रालंकृतिं नुधाः ॥ (४३) अधिकम् आधेयाधिक्यकथनमाधारान्महतोऽधिकम् । आधाराधिक्यकथनमाधेयाद्विपुलाच्च तत् ॥ (४४) अल्पम् आधारसौक्ष्म्यमाघेयात्सूक्ष्मादल्पं तदुच्यते । सूक्ष्मादाधारतस्सौक्ष्म्यमाधेयस्य च तद्भवेत् ।। . (४५) अन्योन्यम् विशेषाधानमन्योन्यमन्योन्यालंकृति विदुः । ____ (४६) विशेषः विशेषस्स्याद्विनाऽऽधारादाधेयं वर्ण्यते यदि ॥ यत्रैकमेव युगपदनेकाधारसंश्रयम् । आधेयं वर्ण्यते सोपि विशेषः परिकीर्तितः ।। किंचित्कार्यारम्भमात्रादन्यत्कार्य सुदुष्करम् । कृतं निबध्यते यत्र विशेषस्सोपि संमतः ॥ (१७) व्याघातः तत्कार्यसाधनं वस्तु तद्विरुद्धस्य साधनम् । क्रियते चेत्तदा ख्यातो व्याघातोऽसावलंकृतिः ॥ पराभिमतकार्यस्य विरुद्धा केनचित् क्रिया ।
SR No.023474
Book TitleAlankar Manihar Part 04
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1929
Total Pages330
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy