SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ लक्षणश्लोकाः 301 (३६) विभावना कारणव्यतिरेकेऽपि कार्योत्पत्तिविभावना । - . कारणानामसामग्रये कार्यजन्म च सा मता ।। तृतीया प्रतिबन्धेऽपि कार्योत्पत्तिर्विभावना।' विभावना चतुर्थी स्यात्कार्योत्पत्तिरकारणात् ॥ कार्योत्पत्तिविरुद्धाचेत्पञ्चमी सा विभावना । कारणस्योद्भवः कार्यायदि षष्ठी विभावना ।। (३७) विशेषोक्तिः विशेषोक्तिः पुष्कलेऽपि हेतौ कार्य न चेद्भवेत् ॥ . (३८) असंभवः असंभाव्यत्वकथनमसिद्धरसंभवः ॥ __ (३९) असंगतिः भिन्नाधिकरणत्वं यद्विरुद्ध हेतुकार्ययोः । वर्ण्यते तमलंकारं प्राज्ञाः प्राहुरसंगतिम् ॥ कार्यमन्यत्र यत्तस्य ततोन्यत्र क्रियापि सा ॥ कर्तुमन्यत्मवृत्तस्य तद्विरुद्धक्रिया च सा ॥ (४०) विषमम् अनानुरूप्यभाजोर्यटनं विषमं हि तत् । विलक्षणस्य कार्यस्योत्पत्तिं च विषमं विदुः । इष्टार्थोद्योगतोऽनिष्टावाप्तिश्च विषमं मतम् ।। (४१) समम् । यत्रानुरूपघटनं वयेते तत्समं विदुः । समं तदपि कार्यस्य सारूप्यं कारणेन यत् ॥
SR No.023474
Book TitleAlankar Manihar Part 04
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1929
Total Pages330
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy