SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ 266 अलङ्कारमणिहारे अथशब्दयोर्द्वयोश्श्रवणात् । पूर्वार्धगतस्याथशब्दस्यानन्तर्यर्थकत्वेन उत्तरार्धगतस्याथशब्दस्य मङ्गळार्थकताया एवावश्यवक्तव्यत्वात् । अन्यथा पौनरुक्तयस्य दुर्वारत्वादित्यास्तां तावत् । अथ मङ्गळः यः ऋषभाचलः वृषाद्रिः तस्य यत् कूटं शिखरं तस्य आपीडे शेखरभूते भगवतीत्यर्थः । इदं विशेष्यम् । अतिश - यिता च सा घृणा च अतिघृणा निरतिशयकरुणा । सैव झरी प्रवाहः तेन बाढे प्रशस्ते 'भृशप्रशस्तयोर्बाढम्' इत्यमरः । गोऽवे अवतीत्यत्रः गवां धेनूनां वेदवाचां वा गोः भुवः दिवश्व वा. अवः रक्षिता तस्मिन् । सदा ऋद्धे समृद्धिमति । ओजः खच्छाये ओजसि तेजसि विषये खं व्योम छाया प्रतिमा यस्य तथांते गगनतलश्यामले इत्यर्थः ' छाया त्वनातपे कान्तौ प्रतिबिम्बा कयोषितो:' इति विश्वः । 'छाया पङ्कौ प्रतिमायाम्' इति हेमचन्द्रश्च । शठ धूर्त हे मनः ! इहि गच्छ । कर्मणोऽधिकरणत्वविवक्षया सप्तमी | श्रीनिवासं शरणं व्रजेत्यर्थः । अत्रोक्तं व्यञ्जनं पुनर्वोक्तमित्यपुनरुक्तव्यञ्जनं नाम चित्रम् | अचां पौनरुक्तयेऽपि न व्यञ्जनपौनरुक्तयमित्यवधेयम् ॥ अथ समसंस्कृतप्राकृतचित्रम्. फणधरवरगिरिगेहं लवणिमपरिवाहधीकलनबाहम् । वरगुणमणिसंदोहं वन्देऽहं सुन्दरं विसन्देहम् || २३६५ ॥ यथावा -- हरिधरणिधरविहारं हारिमहाकिरणभारमणि
SR No.023474
Book TitleAlankar Manihar Part 04
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1929
Total Pages330
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy