SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ शब्दालङ्कारसरः (१२२) 267 हारम् । हेयगुणविसरदूरं गेयगुणं चिन्तये सपरिवारम् ॥ २३६६ ॥ कुन्दसुममन्दहासं कुवलयदलकोमलावयवक्षासम् । कुण्डलिभूधरवासं कलये कमलाविलाससविकासम् ॥ २३६७ ॥ एषु त्रिषु पद्येष्वपि शब्दानां संस्कृतप्राकुतभाषयोस्तुल्यरूपतेति समसंस्कृतप्राकृतमिदम् ॥ অস্ব বয়াগি , पद्माद्याकारमापन्ना वर्णाश्चित्रमुदाहृतम् ॥ ननु कथमस्य शब्दालंकारता, पद्माद्याकारताया रेखोपरेखानिष्ठत्वादिति चेत्सत्यम् । वर्णानुमापकरेखानिष्ठानामेवाकाराणामनुमेयनिष्ठत्वाध्यवसायादौपचारिकीयं शब्दालंकारतावाचोयुक्तिरित्याहुः ॥ ___ तत्र षोडशदलपद्मम्. . एकं यदि भवेत्सर्वमेकान्तरितमक्षरम् । तत्पद्मं षोडशदलं कर्णिकाश्लिष्टवर्णकम् ॥ एकाकारमेव वर्णमेकवर्णान्तरितं यदि निबध्यते कर्णिकायां श्लिष्टं एकवर्ण यस्य तत् षोडशदलपमं नाम चित्रं भवेत् ॥ 20*
SR No.023474
Book TitleAlankar Manihar Part 04
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1929
Total Pages330
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy