SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ शब्दालङ्कारसरः (१२२) 265 अनन्तरपद्यमिदंइति कुपितया श्रियोक्तं निरासवचनं किलानुकुर्वाणा। वीणा स्वरसमुदायैरतोषयद्रङ्गराजमतिरम्यैः ॥ २३६३ ॥ अपुनरुक्तव्यञ्जनचित्रम् व्यञ्जनानां कखादीनां यत्रावृत्तिर्न दृश्यते । चित्रमेतद्विजानीयात्तदनावृत्तवर्णकम् ॥ यथा अथ ऋषभाचलकूटापीडेऽतिघृणाझरीबाढे । ओजःखच्छाये शठ मन इहि गोऽवे सदा ऋखे ॥ __ अति मङ्गळार्थकम् । “मङ्गळानन्तरारम्भप्रश्नकात्मX वथो अथ' इत्यमरः । इदमव्ययं चादौ स्वरादौ च पठ्यते । तेन मङ्गळवाचकस्य सत्त्वार्थकत्वेऽप्यव्ययत्वं सिध्यति । अतएव श्रीहर्ष: उदस्य कुम्भीरथ शातकुम्भजा: चतुष्कचारुत्विषि वेदिकोदरे । यथाकुलाचारमथावनीन्द्रजां पुरन्ध्रिवर्गस्नपयांबभूव ताम् ॥ इति। अत्र हि अथ स्नपयांबभूवेत्यस्य मङ्गळस्नपनं चकारेत्यर्थः । निपातस्तु स्वरूपेणैव मङ्गळो मृदङ्गध्वनिवत् । न चात्र श्रीहर्षपद्ये अथेत्यस्यानन्तर्यमेवार्थः कुतो न स्यादिति वाच्यं, ALANKARA IV. 20
SR No.023474
Book TitleAlankar Manihar Part 04
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1929
Total Pages330
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy