SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ अलङ्कारमणिहारे गीतत्वादिति भावः । अन्य एवामुमर्थं प्रार्थ्यतामित्यत्राह – किमि - ति । कं वा त्वदन्यं कमपि वा नाथेय किं याचेय किं किं नाथेयेति वा । सदभीप्सितज्ञानदानापटुमन्यं किं वस्तु प्रार्थयेय । अपेक्षितार्थस्य तस्मादलब्धेरिति भावः । कुत इथं प्रतिज्ञेत्यत्राह - नाथे इत्यादि । यत् यस्मात् नाथे सर्वेश्वरे त्वयि अहं समर्पितात्मभरः त्वयि न्यत्सात्मरक्षाभरस्याभ्यनाथनं कथं घटेतेति भावः । यथोक्तं 216 तत्पादभक्तिज्ञानाभ्यां फलमन्यत्कदाचन । न याचेत्पुरुषो विष्णुं याचनान्नश्यति ध्रुवम् ॥ इति । अत्राद्यपादद्मध्यभागस्य द्वितीयपादाद्यभागे आवृत्तिः । तृतीयपादमध्यभागस्य तुरीयपादाद्यभागे इति मध्यादियमकं संद शयमकभेदश्च ॥ सप्रमदगण्डकै रहिशिखरी सप्रमदगण्डकैर्लसति । दितसारसैरिभैरपि विपुलोदितसारसैरिभैरपिच ।। २२९१ ॥ सममदैः सस्त्रीकैः सहर्षेर्वा गण्डकैः खडिग्मृगैः । ' गण्डके खड्गखड्गिनो' इत्यमरः । सप्रमदाः प्रकृष्टदानोदकसहिताः गण्डाः करटाः यैस्तैः । सप्रमदगण्डकै: 'शेषाद्विभाषा' इति कप् । दितानि छिन्नानि सारसानि पद्मानि यैस्तैः । पद्मविक्षोभिभिरित्यर्थः । ' दितं छितम्' इत्यमरः । इभैः गजैः । विपुलं यथातथा उदितः अतिमात्रप्रवृद्धः सारः बलं येषां तैः विपुलैः महद्भिः उदितसारैरिति वा । सैरिभैः वनमहिषै: अहिशिखरी लसति । अत्र प्रथमतृतीय - पादादिभागयोर्द्वितीयतुरीयपादयोर्मध्यभागे आवृत्तेरादिमध्ययमकं संदेशयमकभेदश्व ॥
SR No.023474
Book TitleAlankar Manihar Part 04
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1929
Total Pages330
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy