SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ शब्दालङ्कारसरः (१२२) 217 । एवमेकपादगतभागानां पादान्तरभागापक्षा यमकदा दिमात्रेणोदाहृताः । अथ एकपादगतभागानामन्योन्यापेक्षा भेदा दिमाप्रमुदाह्रियन्ते। यथा पायादेषाऽपायाजाया शौरेस्सुधाजलधिजा या। छायाया अच्छाया गेयाऽऽस्थानी सुधीभिरविगेया ॥ २२९२ ॥ या अच्छाया: छायायाः कान्तेः आस्थानी सुधीभिः गेया अविगेया केनाप्यनिन्द्या एषा सुधाजलधिजा शौरेः जाया अपायात् पायादिति योजना ॥ यथावा कल्याणाम्बजकल्यायिता मगाधिपनगाधिपतिदयिता । भाव्याऽमरैश्शुभाऽव्यान्मा तादृशवैभवा जगन्माता ॥ २२९३ ॥ ____ कल्याणमेवाम्बुजं तस्य कल्यायिता प्रभातायमाना 'प्रत्यूषोऽहर्मुखं कल्यम्' इत्यमरः । अमरैः भाव्या ध्येया शुमा कल्याणी ताटशवैभवा अवाङ्मनसगोचरैश्वर्या जगन्माता मृगाधिपनगाधिपतेः शेषाद्रीशस्य दयिता मा श्रीः अव्यात् इति योजना ॥ यथावा बृन्दारकारिबृन्दास्कन्देशानस्य नतशिवस्कन्दे। विन्दे पदारविन्दे नन्देष्टसुतस्य संभृतानन्दे ॥ बृन्दारकारीणां दैत्यानां वृन्दस्य आस्कन्दे पराभवे ईशानस्य पटीयसः । अन्यत्मुगमम् ।। ALANKARA IV. 17
SR No.023474
Book TitleAlankar Manihar Part 04
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1929
Total Pages330
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy