________________
भावशबलतासरः (१११)
11
अथ भावशबलतालंकारसरः (१११)
भावाङ्गे भावशाबल्ये भावशाबल्यमुच्यते ।
यत्र भावशबलताया भावाङ्गत्वं तत्र भावशबलत्वं नामालंकारः । भावानां शबलता नाम पूर्वपूर्वोपमर्दैन प्रवृत्तिः। यथोक्तं-'पूर्वपूर्वोपमर्दैन तेषां शबलता मता' । इति । तेषां भावानामित्यर्थः॥
यथा-(युग्मम् )
यास्याम्येव जनः किं पश्येन्मां तमसि किंतु विद्यात्सः । यदि पश्येद्व्यान्मां कृष्णे रक्तां तदाऽस्मि धन्यैव ॥ २०१७॥
इति मन्दमन्दमन्धे तमसि चलन्तीं व्रजासिताब्जाक्षीम् । सरभसमभिमुखमुपयन् सुगाढमुपगूढवान् जयतु कृष्णः ॥ २०१८॥
अत्र यास्याम्येवेत्यौत्सुक्यं, जनः किं मां पश्यदिति शङ्का, तमासे किंनु विद्यात्स इति धृतिः, यदि पश्येदिति वितर्कः, बयान्मां कृष्णे रक्तामिति मतिः, तदाऽस्मि धन्यैवेति हर्षः इत्येतेषां पूर्वपूर्वोपमर्दैनोत्तरोत्तरवृत्त वशबलता । सा च कविगतभगवद्विषयकरतिभावस्याङ्गम् ॥ इत्यलंकारमणिहारे भावशबलतासर एकादशोत्तरशततमः.