SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ 12 अलङ्कारमणिहारे अथ प्रमाणालंकाराः (११२) यथा प्रत्यक्षादिप्रमाणानां स्याञ्चमत्कारिता यदि । तदा प्रमाणालंकारानष्टौ प्राहुः परे बुधाः ॥ तत्र प्रत्यक्षं यथा-- अर्थानामिन्द्रियाणां च संनिकर्षेण यद्भवेत् । ज्ञानं तदाहुः प्रत्यक्षं चारु चेत्तदलंकृतिः॥ इन्द्रियार्थसन्निकर्षजन्यं ज्ञानं चारुतया वर्णितं चेत्प्रत्यक्षं नामालङ्कारः॥ यथा त्वयि नाथ रुचिरवचने सुधाधरे सुन्दरेऽतिसुकुमारे । सर्वाणि सर्वगन्धे वजसुदृशामिन्द्रियाणि सुखितानि ॥२०१९ ॥ ___ अत्र प्राथिमिकेन विशेषणेन श्रोत्रविषयस्य, द्वितीयेन रसनेन्द्रियविषयस्य, तृतीयेन चक्षुर्विषयस्य, तुरीयेण त्वगिन्द्रियविषयस्य, पञ्चमेन घ्राणेन्द्रियविषयस्य, सुखितानीत्यनेन सर्वेन्द्रियीवषयानुभवजन्यसुखस्य च प्रतिपादनेन सर्वेन्द्रियजन्यप्रत्यक्षप्रतीतेश्चमत्कारितया प्रत्यक्षनामालङ्कारः ॥ अत्र ‘सर्वगन्धस्सर्वरसः' इति श्रुतिरनुसन्धेया ॥ ___ यथावा-- त्वत्तनुमतिदिव्यतमां त्वत्तीर्थ स्वादु तव सुर.
SR No.023474
Book TitleAlankar Manihar Part 04
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1929
Total Pages330
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy