SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ समाहित भावोदयसरौ ( १०८ - १०९ ) अथ समाहितसरः (१०८) समाहितं भावशान्तेर्भावाङ्गत्वे त्वलंकृतिः ॥ यत्र 'भावशान्तिस्त्वाभिव्यक्ते प्रशमे व्यभिचारिणाम्' इत्युक्तलक्षणभावशान्तेर्भावाङ्गत्वम् तत्र समाहितम् ॥ यथावा कुटिलभ्रुकुटिविभीषणनिटिलो द्रुहिणादिदुष्प्रसादोऽपि । प्रह्लादं दृष्टैव प्रासीदस्तव कियन्नु वा - त्सल्यम् ॥ २०१४ ॥ हे भगवन्नित्यध्याहारः । अत्र ' अपकारिषु पारुष्यमुग्रता - तर्जनादिकृत्' इति लक्षितभगवद्गतोग्रताख्यभावशान्तिः कविगततद्विषयकरतिभावस्याङ्गम् । केचित्तु भावाभासस्य भावाङ्गत्वे समाहितं, भावशान्तर्भावाङ्गत्वे भावशान्तिरित्याहुः ॥ इत्यलंकारमणिहारे समाहितसरोऽष्टोत्तरशततमः अथ भावोदयसर : ( १ ० ९) भावोदयस्य भावाङ्गभावे भावोदयो मतः । 'भावोदयस्यादुत्पत्तौ व्यङ्गयायां व्यभिचारिणाम्' इत्युक्तलक्षणस्य भावोदयस्य भावाङ्गतायां भावोदयो नामालंकारः ॥ यथा 6 अम्भोधरगम्भीरे विजृम्भिते शौरिशाङ्गवि ALANKARA, IV. 2
SR No.023474
Book TitleAlankar Manihar Part 04
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1929
Total Pages330
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy