SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ — अलंकारमाणहारे लेन्दोः। यदवेक्ष्य मदनकलुषास्त्रिय इव मुनयोऽपि दण्डकारण्ये ॥२०११॥ अत्र मुनीनां श्रीरघुनन्दनविषयकशृङ्गाररसस्यानौचित्येन प्रवृत्तराभासत्वं, तस्य च कविगतभगवत्सौन्दर्यविषयकभावागत्वम् ॥ ... यथावा क्क वशी त्वं सुकुमारः क्व नु शूर्पणखाऽतिकामुकी रौद्री । रूप्यं त्वां दाशरथे प्राप्यानिच्छन्तमाप वैरूप्यम् ॥ २०१२ ॥ . प्रशस्तं रूपमस्य रूप्यः 'रूपादाहतप्रशंसयोर्थ' इति यत्प्रत्ययः । 'रूप्यं प्रशस्तरूपेऽपि' इत्यमरः । अत्र शूर्पणखायामेकत्रैः वानुरागाद्वा अनौचित्येन प्रवृत्तेर्वा शृङ्गाररसस्याभासत्वम् । स च कविगततद्विषयकरतिभावाङ्गम् । विषमालङ्कारसंकीर्णत्वरूपविच्छित्तिविशेषोऽत्र द्रष्टव्यः ॥ ... सर्वमिदं रसाभासस्य भावाङ्गत्वे उदाहरणम् । भावाभासस्य भावाङ्गत्वे यथा सर्वो ममावनभरो दर्वीकरागरिपते त्वयि न्यस्तः। रक्षसि चेद्रक्षामुं त्यक्षसि चेत्त्यज न जातु निर्विद्ये ॥२०१३ ॥ न निर्विये निर्वेदं न प्राप्नोमि । अत्र गर्वरूपभावस्यानीचित्येन प्रवृत्तेराभासता। स चाभासः भगवद्विषयकभावं प्रत्यअभूतः॥ इत्यलंकारमाणिहारे ऊर्जस्विसरस्सप्तोत्तरशततमः
SR No.023474
Book TitleAlankar Manihar Part 04
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1929
Total Pages330
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy