________________
३ उझ्योतः] ध्वन्यालोकः।
२१५ कठोरं स्त्रीचेतस्तदलमुपचारैर्विरम है
क्रियाकल्याणं वो हरिरनुनयेष्वेवमुदितः । । ... एवं स्थिते च 'न्यक्कारो ह्ययमेव' इत्यादिश्लोके निर्दिष्टानां पदानां व्यगयविशिष्टवाच्यप्रतिपादनेऽप्येतद्वाक्यार्थीभूतरसापेक्षया व्यञ्जकत्वमुक्तम् । न तेषां पदानामान्तरसंक्रमितवाच्यध्वनिभ्रमो विधातव्यः । विवक्षितवाच्यत्वात्तेषाम् । तेषु हि व्यङ्ग्यविशिष्टत्वं वाच्यस्य प्रतीयते न तु व्यङ्ग्यरूपपरिणतत्वम् । तस्माद्वाक्यं तत्र ध्वनिः पदानि तु गुणीभूतव्यङ्गयानि । न च केवलं गुणीभूतव्यङ्ग्यान्येव पदान्यलक्ष्यक्रमव्यङ्ग्यध्वनेर्व्यञ्जकानि यावदर्थान्तरसंक्रमितवाच्यानि ध्वनिप्रभेदरूपाण्यपि । यथात्रैव श्लोके रावण इत्यस्य ध्वनिप्रभेदान्तररूपस्य व्यञ्जकत्वम् । यत्र तु वाक्ये रसादितात्पर्य नास्ति गुणीभूतव्यङ्गयैः पदैरुद्भासितेऽपि तत्र गुणीभूतव्यङ्ग्यतैव समुदायधर्मः। यथा
भगेति । प्रियया यः संभोगभूषणविहीनः क्षणमपि मोक्तुं न पार्यसे । अनेनापीति । 'पश्येदं प्रत्यक्षेणेत्यर्थः । तव च यदेवमादृतं लेजादित्यागेनाप्येवं धार्यते । मृजत इति । भनेन हि प्रत्युत स्रोतःसहस्रवाही. बाष्पो भवति । यच्च त्वं हतचेतनो यन्मां विस्मृत्य तामेव कुपितां मन्यसे । अन्यथा कथमेवं कुर्याः । पतितमिति । गत इदानीं रोदनावकाशोऽपीत्यर्थः । यदि तूच्यते इयताप्यादरेण (किमिति) कोपं न मुञ्चसि तत्किं क्रियते कठोरखभावं स्त्रीचेतः । स्त्रीति प्रेमाद्ययोगादस्तु विशेषमात्रमेतत्तु तस्य चैष. खभावः। आत्मनि चैतत्सुकुमारहृदया योषित इति । न किंचिद्वज्रसाराधिकमासां हृदयं यदेवंविधवृत्तान्तसाक्षात्कारेऽपि सहस्रधा न दलति । उपचारैरिति दाक्षिण्यप्रयुक्तैः । अनुनयेष्विति । बहुवचनेन वारंवारमस्य बहुवल्लभस्येयं स्थितिरिति सौभाग्यातिशय उक्तः । 'एवमेष व्यङ्ग्यार्थसारो वाच्यं भूषयति । तत्तु वाच्यं भूषितं सदाविप्रलम्भाङ्गखमेतीति । यत्तु त्रिष्वपि श्लोकेषु प्रतीयमानस्यैव रसाङ्गत्वं व्याचष्टे स्म स देवं विक्रीय तद्यात्रोत्सवमकार्षीत् । एवं हि व्यङ्गयस्य या गुणीभूतता प्रकृता सैव समूलं त्रुव्येत् । रसादिव्यतिरिक्तस्य हि व्यङ्ग्यस्य रसाङ्गभावयोगित्वमेव प्राधान्यं नान्यत्किंचिदित्यलं पूर्ववंश्यैः सह विवादेन । एवं स्थित इति । अनन्तरोकेन प्रकारेण ध्वनिगुणीभूतव्यङ्ग्ययोर्विभागे स्थिते सतीत्यर्थः । कारिकागतमपिशब्दं व्याख्यातुमाह-न चेति । एष च श्लोकः पूर्वमेव व्याख्यात इति न पुनर्लिख्यते । यत्र त्विति । यद्यपि चात्र विषये निर्वे
१. 'न त्वेषां पदार्थानां' क-ख. २. 'न च केवलपदान्यलक्ष्य' ग. ३. 'अपि तु' ग.
१. 'प्रियायाः' क-ख. २. 'यल्लज्जादित्यागे गोप्यैवं धार्यते' ग. ३. 'कुर्यात्' ग. ४. 'भागित्वं' क-ख. .