SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ २१४ काव्यमाला। यथा च । - 'प्रयच्छतोच्चैः कुसुमानि मानिनी विपक्षगोत्रं दयितेन लम्भिता।। न किंचिदूचे चरणेन केवलं लिलेख बाष्पाकुललोचना भुवम् ॥' इत्यत्र 'निर्वचनं जघान' 'न किंचिदूचे' इति प्रतिषेधमुखेन व्यङ्ग्यस्यार्थस्योक्त्या किंचिद्विषयीकृतत्वाद्गुणीभाव एव शोभते । यदा वक्रोक्तिं विना व्यङ्गयोऽर्थस्तात्पर्येण प्रेतीयते तदा तस्य प्राधान्यम् । यथा 'एवंवादिनि देवर्षों' इत्यादौ । इह पुनरुक्तिभझ्यास्तीति वाच्यस्यापि प्राधान्यम् । तस्मान्नात्रानुरणनरूपव्यङ्ग्यध्वनिव्यपदेशो विधेयः । प्रकारोऽयं गुणीभूतव्यङ्गयोऽपि ध्वनिरूपताम् । धत्ते रसादितात्पर्यपोलोचनया पुनः ॥४१॥ गुणीभूतव्यङ्गयोऽपि काव्यप्रकारो रसभावादितात्पर्यपंर्यालोचनेन पुनर्वनिरेव संपद्यते । यथात्रैवानन्तरोदाहृते श्लोकद्वये । यथा च । 'दुराराधा राधा सुभग यदनेनापि मृजत स्तवैतत्प्राणेशाजघनवसनेनाश्रु पतितम् । पत्तिलक्षणस्यार्थस्योपस्कारतां केवलमाचरति । उपस्कृतस्त्वर्थः शृङ्गाराङ्गतामेतीति । प्रयच्छतेति । उच्चैर्यानि कुसुमानि । कान्तया वयं ग्रहीतुमशक्यत्वायाचितानीत्यर्थः । अस्मदुपाध्यायास्तु हृद्यतमानि पुष्पाणि अमुके, गृहाण गृहाणेत्युच्चैस्तारखरेणादरातिशयार्थ प्रयच्छता । अत एव लम्भितेति । न किंचिदिति । एवंविधेषु शृङ्गारादरावसरेषु तामेवायं स्मरतीति मानप्रदर्शनमेवात्र न युक्तमिति सातिशयमन्युसंभारो व्यङ्गयो वचननिषेधस्यैव वाच्यस्य संस्कारः । तद्वक्ष्यति-उक्तिभङ्यास्तीति । तस्येति व्यङ्ग्यस्य । इहेति पत्युरित्यादौ । वाच्यस्यापीति । अपिशब्दो भिन्नक्रमः। प्राधान्यमपि भवति वाच्यस्य रसाद्यपेक्षया तु गुणतापीत्यर्थः । अत एवोपसंहारे ध्वनिशब्दस्य विशेषणमुक्तम् । एतदेव निर्वाहयन्काव्यात्मलं ध्वनेरेव परिदीपयति-प्रकार इति । श्लोकद्वय इति तुल्यच्छायं यदुदाहृतं पत्युरित्यादि तत्रेति । द्वयशब्दादेवंवादिनीत्यस्यानवकाशः । दुराराधेति । अकालकुपितापि पादपतिते मयि न प्रसीदसि अहो दुराराधासि मारोदीरित्युक्तिपूर्व प्रियतमेऽभूणि मार्जयति इयमस्या अभ्युपगमगर्भोक्तिः । १. 'तथा' क-ख. २. 'न किंचित्' ग. ३. 'गुणभाव' ग. ४. 'तस्माद्यत्रोक्तिं विना' क-ख. ५. 'प्रकाशते तत्र' क-ख. ६. 'भ्रमः' क-ख. ७. 'रसभावतात्पर्य' क-ख. ८. 'पर्यालोचने स पुनः' क-ख. ९. 'पुनरेव धनिः' ग. १०. 'यथा तत्रैवोदाहृते' ग. ११. 'सृजतः' क-ख. . १. 'ईदृशस्य' क-ख.
SR No.023466
Book TitleDhvanyaloak
Original Sutra AuthorN/A
AuthorAnandvardhanacharya, Abhinavguptacharya, Durgraprasad Pt., Wasudev Laxman Shastri
PublisherPandurang Jawaji
Publication Year1928
Total Pages258
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy