SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ 17 छन्दोदर्शनम् पदपाठ :- अग्निः । अयं । पुरुषः। सन् । अमृतः । सः। अनु । इतः । स्त्रां । परमां । अमृतां । वाचम् ॥ वाचः । एव । विश्व । इदं । सं । जजान । ज्योतिषा । आत्मा । सः । अधि । अग्निः । परि । इतः । चितः ॥ This Agni is Purusha, the immortal: in combination with his own creation, namely immortal Vak, well-known as the best, he created this universe from her, the Vak. This Agni is the Atma Himself, the supreme and is recognised as such all over. अन्वयमाष्यम्। अयं अग्निः स्वय अमृतात्मा पुरुषः सन् सत्तामात्र:, सः स्वां आत्मीयां अमृतात्मिकां तां परां वाचं अन्वितः सन् तस्याः वाचः पराशक्तेरेव वाङ्मुखात् आदिसृष्टौ इदं परिदृश्यमानं विश्वं जगत् सञ्जजान उत्पादयामास ॥ " स पूर्वया निविदा कव्यताऽऽयोरिमाः प्रजा अजनयन्मनूनाम्"। (ऋ. मं. १-९६-२) इति मन्त्रवर्णा त् तदेवाश्रीवितम् ॥ अपि च स: चितः परीत: चेतनात्मना सर्वत्रापि व्याप्तः, अत एव सोऽयमग्निः न केवलं भौतिकः अचेतनश्च भवति, यथा यावाँश्च अस्माभिः प्रत्यक्षं दृश्यते, अपि तु पर एव सः परोक्षः चेतनात्मव भवतीति || COMMENTARY-SUMMARY TRANSLATION This Agni is himself the immortal Purusha. As such, he is combined with his own immortal Vak, who is famous as the best. From Vak, the force par excellence, and through Vāk, at the beginning, he created this Universe. which we see all-round. The Rgveda says: “He created, through the first recitation of mantras these children of the Manus associated with Ayu” ( Rg. I-96-2). Further, he is all pervasive by his activity. Therefore, this Agni is not merely physical fire, which has no knowledge whatsoever when seen by us in its limited form, but is Atmă the ever-active Chetana, who is not visible. द्वितीया ऋक् । अग्निरयं विश्वविजातवेदाः स्व ?विश्वान्येव भूतानि जातानि वेद । विश्वषु यो जातेष्वन्तः सविद्यते स इग्निर्विश्ववेदाः समिध्यते ॥ २ ॥ CD-3
SR No.023462
Book TitleChandodarshanam
Original Sutra AuthorN/A
AuthorDaivarata Rshi, Ganpatimuni
PublisherBharatiya Vidya Bhavan
Publication Year1968
Total Pages524
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy