SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ 18 छन्दोदर्शनम् पदपाठ :- आग्निः । अयं । विश्वऽवित् । जातऽवेदाः। विश्वानि । एव । भूतानि । जातानि । वेद । विश्वेषु । यः । ज तेषु । अन्तरिति । सम्ऽविद्यते । सः । इत् । अग्निः विश्वऽवेदाः । सं। इध्यते । This Agni is Omniscient and a Jāta-veda, Self-Luminous. He knows all and everything that is born. He exists in all that is born. He is Agni and has all kinds of knowledge. He is ever self-effulgent. . अन्वयभाष्यम् । सोऽयमग्निः विश्ववित् सर्वज्ञः जगत्कारणत्वात् , स्वः स्वयम्प्रकाशरूपः, जातवेदाः नामतः रूपतः गुणत: कर्मतश्च, तस्येदमुपवर्णनम् भवति, येन सः इमानि विश्वानि भूतानि स्वात्मनः प्रजातानि वेद जानाति, तदेव जातवेदसः तस्य जातवेदस्त्वम् , तथैव पुनः सः एतेषु जातेषु भूतेषु अन्त: चिदात्मरूपेण संविद्यते नित्यं प्रतितिष्ठति, तस्मादेव स जातवेदाः इति सुष्टतः ॥ "जन्मजन्मन् निहितो जातवेदाः" इति हि तदनुश्रावणम् (क्र. मं. ३-१-२१) तदेव तस्य जातवेदस्त्वम् ॥ सोऽयं जातवेदाः एव सन् अग्निः विश्ववेदाः सर्वज्ञानपूर्णः सर्वत्रा प्रदीप्यते ज्योतिरात्मस्वरूपेण इति ॥ COMMENTARY-SUMMARY TRANSLATION This Agni knows all and everything and so, he is Omniscient, as he is the Creator of the whole universe. Swah : self-effulgent. . Therefore he is Jata-veda (born with knowledge); by name, form, quality and function, he is that. As he knows all and everything which is born of himself, he is Jataveda. Likewise, he pervades all and everything as Chidátmå in the form of knowledge. Therefore, he is acclaimed as Jata-veda. Being a Jata-veda, he is Visva-veda, full of all kinds of knowledge. He is self-effulgent in the form of light all over. तृतीया ऋक् । अग्निरयं वैश्वानरो विश्वथाऽऽततो विश्वेष्वेव नरेष्वन्तः प्रति प्रविष्टः।
SR No.023462
Book TitleChandodarshanam
Original Sutra AuthorN/A
AuthorDaivarata Rshi, Ganpatimuni
PublisherBharatiya Vidya Bhavan
Publication Year1968
Total Pages524
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy