________________
xi
इदानीमपि मन्त्राख्यां सत्यसन्धो महायशाः। प्रदिशन् आत्मदृष्टिभ्यो दैवरातः प्रदृश्यते एवं यो यतते योगान्मनोवाक्प्राणकर्मणाम् ।
सोऽप्यन्तस्तपसाऽवश्यं मन्त्रद्रष्टा भवेदृषिः" ॥ १३ ॥ एवमेव भाष्यान्ते उपसंहारश्लोकाश्च विद्यन्ते एतदर्थप्रतिपादकाः ॥ अत्रैते भवन्ति उपसंहारश्लोका: -
आर्षेण चक्षुषाऽपश्यद् या ऋचस्तप आचरन् | वैश्वामित्रो दैवरातो विश्वामित्र इवापरः ता इमा अतिगम्भीराः शुद्धाः परमपावनीः। वासिष्ठोऽन्वयभाष्येण समलतवान् मुनिः इदं ये मन्वते धीराः नवीनं मन्त्रदर्शनम् | गम्भीरं दैवरातस्य तेषां नश्यन्ति संशयाः
॥ ३॥ इत्ययं वेदसिद्धान्तो नूतने मन्त्रदर्शने |
वेदशास्त्रप्रमाणेन वासिष्ठेन समुदधृतः अथ अस्मिन्नर्थे नूतनमन्त्राविर्भावे नूतने च मन्त्रदर्शने नूतनर्षित्वे च ऋङ्मन्त्रवर्ण एव प्रधानं प्रमाणम् | तथा च वसिष्ठार्षेयं ऋङ्मन्त्रवर्णदर्शनम् -
" ये च पूर्वऋषयो ये च नूत्ना इन्द्रब्रह्माणि जनयन्त विप्राः। अस्मे ते सन्तु सख्या शिवानि यूयं पात स्वस्तिभिः सदा नः ॥
(ऋ. मं. ७-२२-९) __ हे इन्द्र ये च पूर्वे प्राचीनाः ऋषयः प्रसिद्धाः, ये च नूत्ना: नूतनाः ऋषयः ब्रह्मणि ब्रह्मरूपान् मन्त्रान् जनयन्त अजनयन्, प्रादुर्भावयामासुः, ते ऋषयः मन्त्राश्च अस्मे अस्मासु सख्यानि शिवानि च सन्तु इति स्पष्टतरोऽर्थः ॥ तथैव माधुश्छन्दसं ऋङ्मन्त्रदर्शनम् -
अग्निः पूर्वेभिर्ऋषिभिरीडयो नूतनैरुत । ___स देवा एह गच्छति ||
(ऋ. मं. १-१-२) अस्य मन्त्रस्य वासिष्ठं ऋग्भाध्यवचनम्, पूर्वेभिः पुरातनैः ऋषिभिः उत नूतनैः ऋषिभिः नवीनैश्च मन्त्रद्रष्टभिः अग्निः ईड्य: ईडितुं शक्यः, ऋषिभिरित्यनेन एतदाह - नानृषिः यथावद् भगवन्तं स्तोतुं शक्नुयादिति, नूतनैः इत्यनेन एतदाह - न ऋषित्वं कालसापेक्षमिति ||