SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ देवरातस्य छन्दोदर्शनम् पडवे ग्रामे (मद्रास प्रान्ते ) श्रीरेणुकाम्बाक्षेत्रे १८३९ तमे शालिवाहनशके शारद्यां नवरात्र्यां तपसः प्रारम्भः, कार्तिकपूर्णमास्यां प्रारभ्य षोडशदिनपर्यन्तं छन्दोदर्शनोदयः || - X वासिष्ठगणपतिमुनेः अन्वयभाष्यरचना - तस्मिन्नेव समये १८३९ तमे शके कार्तिकपूर्णिमायां प्रारभ्य मावशुक्लपूर्णिमायां समाप्ति नीता ॥ तत्रायं प्रवृत्तो विश्वमीमांसायां वेदप्रमाणचर्चायां वेदमन्त्राणां नूतने दर्शने विमर्श: शास्त्रदृष्ट्या संवृत्तः ॥ तमे विश्वमीमांसाश्लोकाः - 66 'वेदश्छन्दोमयो मन्त्रो दिव्यज्ञानानुभावदः । प्रत्यक्षं सत्प्रमाणं स्यात् तपसा दर्शनादृषेः वेदो ब्रह्मात्मविज्ञानं नित्यं तस्यानुभावतः । तपसा तत्प्रकाशार्थं सोदीर्णा वागपि श्रुतिः समष्टेः करणेनेव ऋषीणामात्मनीरितम् | हृदाऽनूदितमेवान्तरार्षे तद्दर्शनं श्रुतम् अनन्ता वै स्थिता वेदाः व्योम्न्यखण्डस्वरात्मकाः । तपसाऽन्तः समाधौ च श्रूयन्ते ते महर्षिभिः स्वभावः सिद्धवस्तूनां द्रष्टुर्दर्शनयोग्यता | सामर्थ्य तादृशं यत्र तत्र स्यात् स्फुरणं स्वयम् दहशुऋषयो वेदं पूर्वे ते तपसा यथा । इदानीमपि तच्छक्यं तथैव द्रष्टुमन्तरे ब्रह्मात्मदर्शनं यद्वत् पूर्ववत् सत्प्रमाणतः । इदानीमपि सम्पाद्यमृषीणामिव तत्त्वतः तपसाऽन्तर्द्दशा चैव पूर्णसद्वस्तुदर्शनात् । वेदवाचामपि तथा दर्शनं हि भवेत् सताम् परस्यापि ब्रह्मणश्चेद् दर्शनं शास्त्रतो भवेत् । किं शब्दब्रह्मरूपस्य वेदस्य नेति वादतः बहुधाऽपि तपस्तप्त्वा प्राप्तुं तत्मन्त्रदर्शनम् | नाशक्नवमहं पूर्ण संस्कर्तु हृदयं तथा तथाऽपि तपसैवाप्तुं शक्यं तन्मन्त्रदर्शनम् | इति मे सुदृढो यत्नो निश्चयोऽप्यस्ति शास्त्रतः ॥ १ ॥ ॥२॥ || 3 || ॥ ४ ॥ ॥ ५॥ ॥ ६॥ ॥ ७ ॥ 112 11 ॥ ९ ॥ ॥ १० ॥ ॥ ११ ॥
SR No.023462
Book TitleChandodarshanam
Original Sutra AuthorN/A
AuthorDaivarata Rshi, Ganpatimuni
PublisherBharatiya Vidya Bhavan
Publication Year1968
Total Pages524
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy