SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ वृत्तमुक्तावली अथ द्विगणविचार: मित्रान्मित्रं सुखानि प्रकटयति ततो राति भृत्यः स्थिरत्वं कार्गे युद्धे जयं च प्रथयति बहुधा कार्यबन्धानुदासः । मित्राच्छत्रुश्च गोत्रस्वजनरुजमथो भृत्यतो मित्रभृत्यौ कल्याणायैव वित्तक्षयरिपुभयदावप्युदासीनशत्रू ॥ २४ ॥ अत्रोदासीनमित्रे किमपि कलयतः कार्यविघ्नं पुरस्ताद्भव्यायोदासभृत्यौ न हि शुभमशुभं चापि चेवावुदासौ । कृत्वोदासीनशत्रू जनयति रिपुतां गोत्रजेऽप्येवमुच्चैः शत्रोश्चेन्मित्रभृत्यानुभयरिपुगणाः श्रेयसे नैव ते स्युः ॥ २५ ॥ अथ छन्दोनिरूपणम्मात्रा-वर्णविभेदेन वृत्तद्वैविध्यमीरितम् । तत्र संख्यातमात्राणि वृत्तान्यादौ प्रचक्ष्महे ।। २६ ॥ तत्रादौ गाथाप्रभेदाः जानीत गाथिका-गाथा-विगाथोद्गाथिकायुताः । गाथिनी सिंहिनी स्कन्धेत्यार्याः सप्तव कोविदाः !! ।। २७ ।। भवति चतुःपञ्चाशन्मात्राभिर्गाथिका नाम । गाथा तद्द्वयधिकाभिस्तविपरीता विगाथा स्यात् ।। २८ ॥ उद्गाथा षष्टिकला द्वाषष्टिकला च गाथिनी ज्ञेया। तद्विपरीता सिंही भजति स्कन्धा कलाश्चतुःषष्टिम् ॥ २६ ॥ अथ गाथिकालक्षणम् - यस्यामुभयोर्दलयोः सप्ताधिकविंशतिर्मात्राः । प्रत्येक विधृताः स्युर्गेया सा गाथिका नाम ॥ ३० ॥ सा सर्वगुरुर्यथा - श्रीरामाज्रिध्यानप्रोद्भूताऽशेषकल्याणः ।। धर्माध्वत्राताऽद्य श्रीमान् राजाधिराजोऽयम् ॥ ३१ ।। सर्वलघुर्यथा - विषमसमरजयपटुतर लसदसिपरिकलितपृथुभुजबल । कमठकुलकलशनरवर जय जय नयनिलय जितपरबल ॥ ३२ ।। अथ गाथालक्षणम् - पूर्वार्द्ध त्रिंशत् स्युः परतोऽपि च सप्तविंशतिर्मात्राः । तहि भवेत् सा गाथा तद्विपरीता विगाथा स्यात् ॥ ३३ ।।
SR No.023459
Book TitleVruttamuktavali
Original Sutra AuthorN/A
AuthorH D Velankar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1963
Total Pages120
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy