SearchBrowseAboutContactDonate
Page Preview
Page 405
Loading...
Download File
Download File
Page Text
________________ ३६० चक्रे० : तथा देव० : तथा दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम् मन्नइ तमेव सचं नीसंकं जं जिणेहिं पन्नत्तं । सुहपरिणामो सम्मं कंखाइविसुत्तियारहिओ । । २५९।। चक्रे० : मन्यते तदेव सम्यक् सत्यमविसंवादि, निःशङ्कं निःसन्देहं यत्किञ्चिज्जिनैः प्रज्ञप्तम् । शुभः परिणामः प्रस्तावादास्तिक्यलक्षणो यस्य स तथाऽऽस्तिक इत्यर्थः । काङ्क्षादय एव विस्रोतसिकाश्चित्तविप्लुतयस्ताभी रहित इति । । २५९ ।। तथा देव० : मन्यतेऽभ्युपगच्छति तदेव सम्यक् सत्यमविसंवादि निःशङ्कं निस्सन्देहं यत् किम् ? यज्जिनैः प्रज्ञप्तम्, शुभपरिणाम आस्तिक्यलक्षणो यस्य स तथास्तिक इत्यर्थः । सम्यक् शब्दो योजित एव, काङ्क्षादय एव विश्रोतसिकाश्चित्तविप्लुतयस्ताभी रहित इत्यन्ये तूपशमादीन्यन्यथा व्याचक्षते १ - सुपरीक्षितप्रवक्तृप्रवाच्यप्रवचनतत्त्वाभिनिवेशान्मिथ्याभिनिवेशोपशान्तिरुपशमः । यो ह्यतत्त्वं विहाय तत्त्वं प्रतिपन्नः स लक्ष्यते सम्यग्दर्शनीति । २- संवेगो भयं जिनप्रवचनानुसारिणो नरकादिषु नानादुःखमवलोकयतस्तद्भीरुतया तत्प्रशमोपायभूतं धर्ममनुतिष्ठतो लक्ष्यते विद्यतेऽस्य सम्यक्त्वमिति । ३ - निर्वेदो विषयेष्वनभिष्वङ्गो यथा इहपरलोकयोर्दुरन्तः कामभोगाभिष्वङ्गस्तस्मादुज्झितव्य एवायमिति निर्वेदाल्लक्ष्यते सम्यक्त्वमिति ४-अनुकम्पा कृपा, यथा सर्व एव सत्त्वाः सुखार्थिनो दुःखप्रहाणार्थिनश्च, तन्नैषामल्पापि पीडा मया कार्येत्यनयापि लक्ष्यते सम्यक्त्वम् ५ - सन्ति खलु जिनप्रवचनोपदिष्टा अतीन्द्रिया जीवपरलोकादयो भावा इति परिणाम आस्तिक्यम्, अनेनापि लक्ष्यते सम्यक्त्वमिति गाथार्थः।।२५९।। * धर्मसंग्रहण्याम्-८१२, श्रावकप्रज्ञप्ती - ५९* मन्नति तमेव सच्चं नीसंकं जं जिणेहिं पन्नत्तं । सुहपरिणाम सव्वं कंखादिविसोत्तियारहितो ।। मन्यते प्रतिपद्यते तदेव सत्यं निःशङ्कं यज्जिनैः प्रज्ञप्तं शुभपरिणामः साकल्येनानन्तरोदितगुणसमन्वितः सर्वं समस्तम्, न तु किञ्चिन्मन्यते किञ्चिन्नेति, भगवत्यविश्वासायोगात् । किंविशिष्टः
SR No.023423
Book TitleDarshanshuddhi Prakaranam Aparnam Samyaktva Prakaranam
Original Sutra AuthorN/A
AuthorVijaykirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages512
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy