SearchBrowseAboutContactDonate
Page Preview
Page 406
Loading...
Download File
Download File
Page Text
________________ ५- तत्त्वतत्त्वम् गा - २६० सन्नित्याह- काङ्क्षादिविस्रोतसिकारहितः काङ्क्षा अन्यान्यदर्शनग्रहः, आदिशब्दाद्विचिकित्सादिपरिग्रहः, शङ्का तु निःशङ्कमित्यनेनैव गता, काङ्क्षादय एवं विस्रोतसिकां संयमसस्यमङ्गीकृत्याऽध्यवसायसलिलस्य विस्रोतो गमनं तया रहित इति ।।८१२ ।। चक्रे० : अथ प्रकृतं निगमयन्तः सम्यक्त्वफलमाहुः देव० : प्रकृतमेव निगमयन् सम्यक्त्वफलमाह एवंविहपरिणामो सम्मद्दिट्टी जिणेहिं पत्रत्तो । एसो उ भवसमुद्दं लंघइ थोवेण कालेन । । २६० ।। चक्रे० : एवंविध उपशमादिरूपः परिणामो यस्य स तथा सम्यग्दृष्टिर्जिनैः प्रज्ञप्तः । तुरेवकारार्थः, एष एव भवसमुद्रं लङ्घयति स्तोकेन कालेन । तथा चागमः ३६१ 'उक्कोसदंसणेणं भंते जीवे करहिं भवग्गहणेहिं सिज्झिज्जा ? गोयमा ! उक्कोसेणं तेणेव तओ मुक्के तइयं नाइक्कमइत्ति ।। २६० ।। - देव० : एवंविध उपशमादिरूपः परिणामो यस्य स तथा सम्यग्दृष्टिर्जिनैः प्रज्ञप्तः, एष एवोत्कृष्टदर्शनाराधको भवसमुद्रं लङ्घयति स्तोकेन कालेनोत्कृष्टतस्तेनैव भवेन, जघन्यतस्तृतीयेन, तथा चागमः - उपसंहरन्नाह - 'उक्कोसदंसणेणं भंते जीवे कइहिं भवग्गहणेहिं सिज्झिज्जा ? गोयमा ! उक्कोसेणं तेणेव तओ मुक्के तइयं नाइक्कमइ 'त्ति गाथार्थः । । २६० ।। * धर्मसंग्रहण्याम्-८१३, श्रावकप्रज्ञप्तौ - ६० * एवंविहपरिणामो सम्मदिट्ठी जिणेहिं पन्नतो । एसो य भवसमुद्दं लंघइ थोवेण कालेणं ।। एवंविधपरिणामोऽनन्तरोद्दिष्टप्रशमादिपरिणामः सम्यग्दृष्टिर्जिनैः प्रज्ञप्तः । अस्यैव फलमाह एष च सम्यग्दृष्टिर्भवसमुद्रं लङ्घयत्यतिक्रामति, स्तोकेन कालेन प्राप्तबीजत्वादुत्कर्षतोऽप्यपार्द्धपुद्गलपरावर्त्तेन किञ्चिदूनेन सिद्धिप्राप्तेः । । ८१३ ।।
SR No.023423
Book TitleDarshanshuddhi Prakaranam Aparnam Samyaktva Prakaranam
Original Sutra AuthorN/A
AuthorVijaykirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages512
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy