________________
५-तत्त्वतत्त्वम् गा-२५८
३५९
* धर्मसंग्रहण्याम्-८१०, श्रावकप्रज्ञप्तौ-५७ * नारयतिरियनरामरभवेसु निव्वेदतो वसति दुक्खं ।
अकयपरलोगमग्गो ममत्तविसवेगरहितो वि ।। नारकतिर्यग्नरामरभवेषु सर्वेष्वेव निर्वेदतो निवेदेन कारणेन वसति दुःखम् । किंविशिष्टः सन्नित्याहअकृतपरलोकमार्गोऽकृतसदनुष्ठानः । अयं हि सकलेऽपि जीवलोके परलोकानुष्ठानमन्तरेण सर्वमेवासारं मन्यत इति । पुनः कथम्भूत इत्याह-ममत्वविषवेगरहितोऽपि, अपिरेवकारार्थः, प्रकृत्या ममत्वविषवेगरहित एव, विदिततत्त्वत्वादिति ।।८१० ।।
चक्रे० : तथा - देव० : तथा -
दटूण पाणिनिवहं भीमे भवसायरंमि दुक्खत्तं ।
अविसेसओ णुकंपं दुहा वि सामत्थओ कुणइ।।२५८।। चक्रे० : पूर्वार्धं सुगमम्, अविशेषतोऽनात्मपरविभागेनानुकम्पा द्विधाऽपि । द्रव्यतो बाह्यापत्प्रतीकारेण भावतश्चार्द्रहृदयतया प्रतिबोध्य प्रतिबोध्य सन्मार्गप्रापणेन सामर्थ्यतः स्वशक्त्यनुसारेण करोति ।।२५८ ।।
देव० : पूर्वार्धं सुगमम्, अविशेषतोऽपक्षपातेन, पक्षपातेन तु स्वापत्यादिषु करुणा व्याघ्रादीनामप्यस्ति, अनुकम्पां द्विधापि द्रव्यतो बाह्यापत्प्रतीकारेण, भावतश्चार्द्रहृदयतया, सामर्थ्यतः स्वशक्तिमपेक्ष्य करोत्यनुकम्पामिति गाथार्थः ।।२५८ ।।
* धर्मसंग्रहण्याम्-८११, श्रावकप्रज्ञप्तौ-५८ *
तथा -
दवण पाणिनिवहं भीमे भवसागरम्मि दुक्खत्तं ।
अविसेसतोऽणुकंपं दुहावि सामत्थतो कुणति ।। दृष्ट्वा प्राणिनिवहं जीवसंघातं दुःखार्तं शारीरमानसैर्दुःखैरभिभूतम्, क्व दृष्ट्वेत्याह-भीमे भयानके भवसागरे संसारसमुद्रेऽविशेषत आत्मीयेतरविचाराभावेनाऽनुकम्पां द्विधापि द्रव्यतो भावतश्च, तत्र द्रव्यतः प्रासुकपिण्डादिदानेन, भावतो मार्गयोजनया, सामर्थ्यतः स्वशक्त्यनुरोधेन करोति ।।८११।।