SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ २४८ दर्शनशद्धिप्रकरणम - सम्यक्त्वप्रकरणम दोषानवाप्नुते, कथम् ? भगवत्प्रतिक्रुष्टवन्दन आज्ञाभङ्गः, तं दृष्ट्वाऽन्येऽपि वन्दन्त इत्यनवस्था, तान् वन्दमानान् दृष्ट्वाऽन्येषां मिथ्यात्वम्, कायक्लेशतो देवताभ्यो वाऽऽत्मविराधना, तद्वन्दनेन तत्कृतासंयमानुमोदनात्संयमविराधनेति गाथार्थः ।।११०८ ।। * संबोधसप्ततिकायाम्-१० * अथ पार्श्वस्थादीनां वन्दनफलमाह - पासत्थाई वंदमाणस्स नैव कित्ति न निज्जरा होइ । जायइ कायकिलेसो बंधो कम्मस्स आणाए ।। निर्दिष्टलक्षणान् पार्श्वस्थादीन् वन्द्यमानस्य जनस्य कीर्तिन भवति, निर्जरा कर्मक्षयमपि न भवति, पुनः कायक्लेशः कायस्य शरीरस्य क्लेश इतस्ततश्चलनात्मको जायत उत्पद्यते, कर्मबन्धोऽप्यष्टानां कर्मणामपि बन्धो भवति, आज्ञाया जिनाज्ञाया भङ्गोऽपि भवतीति शेषः, अतो न वन्दनार्हाः पार्श्वस्थादय इति भावः ।।१०।। चक्रे० : एवं तावत्पार्श्वस्थादीन् वन्दमानस्य दोषा उक्ताः, सम्प्रत्येषामेव गुणाधिकान् वन्दयतामपायान् दर्शयन्ति - देव० : एवं तावत्पार्श्वस्थादीन् वन्दमानस्य दोषा उक्ताः, साम्प्रतं तेषामेव गुणाधिकवन्दनप्रतिषेधमकुर्वतामपायान् दर्शयति - जे बंभचेरस्स वयस्स भट्ठा उटुंति पाए गुणसुट्ठियाणं । जम्मंतरे दुल्लहबोहिया ते कुंटत्तमंटत्तणयं लहंति।।१९१।। चक्रे० : स्पष्टा, नवरं कुण्टः पाणिविकलः, मण्टस्तु विसंस्थुलोरूजङ्घः, तस्मादवन्द्याः पार्श्वस्थाद्या इति स्थितम्।।१९१ ।। देव० : षष्ठ्याः पञ्चम्यर्थत्वाद् ये ब्रह्मचर्यान्मैथुनव्रताद्, व्रतात् सामान्येन प्राणातिपात विरमणादेर्धष्टा: संयमबाह्या इत्यर्थः, व्रतान्तर्गतत्वेऽपि ब्रह्मव्रतस्य पृथगुपादानं तभ्रंशस्यातिदौष्ट्यख्यापनार्थमत एवात्रापवादोऽपि नास्ति, तथा चात्र कल्पभाष्यम् - कामं सव्वपएसु वि ओसग्गववायधम्मया जुत्ता । मुत्तुं मेहुणभावं न विणा तं रागदोसेण ।। [ ] १. लाहेवि कुटत्तणयं लहंति M२. ब्रह्मचर्यद् व्रताद् भ्रष्टाः, शेषव्रतोपलक्षणमिदमस्यैव च भणनमेतभ्रंशस्य T,B.C ३. उसग्गववायधम्मया जुत्ता । मोत्तुं मेहुणभावं न विण तं रागदोसेणं T,C
SR No.023423
Book TitleDarshanshuddhi Prakaranam Aparnam Samyaktva Prakaranam
Original Sutra AuthorN/A
AuthorVijaykirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages512
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy