SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ ४-साधुतत्त्वम् गा-१९२ २४९ 'उडुति'त्ति उपनयन्ति पादौ चरणौ गुणसुस्थितानां मूलोत्तरगुणधारिणाम्, वन्दमानानामिति शेषः । ते एवमुपचितपापभरा जन्मान्तरे दुर्लभबोधिका नरकतिर्यक्षु भूयोभूयः परिभ्रम्य कदाचित्पुनरनन्तकालात्तदवाप्तेः । किञ्च लब्धायामपि बोधौ कुण्टत्वमण्टत्वमुपलक्षणत्वादान्ध्यबाधिर्यमौक्यरोगित्वादि च लभन्ते यथा न शक्नुवन्ति धर्ममनुष्ठातुम्, कुण्टः पाणिविकलो मण्टस्तु विसंस्थुलोरुजङ्घ इति, तस्मादवन्दनीया एते पार्श्वस्थादय इति स्थितमिति गाथार्थः । ।१९१।। * आवश्यकनिर्युक्तौ-११०९, गुरुतत्त्वविनिश्चये-३/१२२ * एवं तावत्पार्श्वस्थादीन् वन्दमानस्य दोषा उक्ताः, साम्प्रतं पार्श्वस्थादीनामेव गुणाधिकवन्दनप्रतिषेधमकुर्वतामपायान् प्रदर्शयन्नाह - जे बंभचेरभट्ठा पाए उडुंति बंभयारीणं । ते हंति कुंटमुंटा बोही य सुदुल्लहा तेसिं ।। 'जे' त्ति । ये पार्श्वस्थादयो भ्रष्टब्रह्मचर्या अपगतब्रह्मचर्या इत्यर्थः, ब्रह्मचर्यशब्दो मैथुनविरतिवाचकस्तथौघतः संयमवाचकश्च, 'पाए उडुति बंभयारीणं' पादावभिमानतो व्यवस्थापयन्ति ब्रह्मचारिणां वन्दमानानामिति, तद्वन्दननिषेधनं न कुर्वन्तीत्यर्थः, ते तदुपात्तकर्मजं नारकत्वादिलक्षणं विपाकमासाद्य यदा कथञ्चित् कृच्छ्रेण मानुषत्वमासादयन्ति तदापि भवन्ति कोण्टमुण्टा । बोधिश्च जिनशासनावबोधलक्षणा सकलदुःखविरेकभूता सुदुर्लभा तेषाम्, सकृत्प्राप्तौ सत्यामप्यनन्तसंसारित्वादिति गाथार्थः ।।११०९।। चक्रे० : अत एव च - देव० : अत एव च - पासत्थो ओसनो कुसीलसंसत्तनी य अहाच्छंदो । एएहिं आइन्नं न आयरिज्जा न संसिज्जा।।१९२।। चक्रे० : स्पष्टा ।।१९२।। देव० : पार्श्वस्थादयो वर्णितस्वरूपास्तत एतैराचीर्णमाचरितं नाचरेन्नशंसेदिति गाथार्थः ।।१९२।। १. प्रगुणीकुर्वतेत्यर्थे देश्यं T,B,C २. अहछंदो A.T.C.z
SR No.023423
Book TitleDarshanshuddhi Prakaranam Aparnam Samyaktva Prakaranam
Original Sutra AuthorN/A
AuthorVijaykirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages512
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy