SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ ४-साधुतत्त्वम् गा-१९० २४७ किइकम्मं च पसंसा सुहसीलजणंमि कम्मबंधा य । जे जे पमायठाणा ते ते उववूहिया हुंति ।। [आव.नि. ११९२] 'आणाई'त्ति आज्ञाभङ्गादयश्च जायन्ते, तत्र भगवनिषिद्धवन्दनेनाज्ञाभङ्गः, तं दृष्ट्वाऽन्येऽपि वन्दन्त इत्यनवस्था, तान् वन्दमानान् दृष्ट्वाऽन्येषां मिथ्यात्वम्, कायक्लेशतो देवताभ्यो वाऽऽत्मविराधना, तद्वन्दनेन तत्कृताऽसंयमानुमोदनात् संयमविराधनेति गाथार्थः ।।१९०।। देव० : वन्दमानस्य पार्श्वस्थादीव निर्जरा कर्मक्षयलक्षणा, तीर्थकराज्ञाविराधनद्वारेण निर्गुणत्वान्न कीर्तिरहो पुण्यभागयमित्येवंलक्षणा, अपि त्वकीतिरेव, नूनमयमप्येवंस्वरूपो यदेतान् वन्दत इति, तथा जायते कायक्लेशोऽवनामादिलक्षणः शरीरखेदः, तथा बन्धो विशिष्टरचनयाऽऽत्मनि स्थापनम्, क्रियत इति कर्म ज्ञानावरणीयादि तस्य तदाचारानुमोदनात्, तथा चाभिहितम् किइकम्मं च पसंसा सुहसीलजणम्मि कम्मबंधा य । जे जे पमायठाणा ते ते उववूहिया हुंति ।। [ आव.नि. ११९२] पदैकदेशेऽपि पदावगमादाज्ञाभङ्गादयश्च जायन्त इतीहापि योगः, तत्र भगवत्प्रतिक्रुष्टवन्दनेनाज्ञाभङ्गस्तं दृष्ट्वान्येऽपि वन्दन्त इत्यनवस्था, तान् वन्दमानान् दृष्ट्वान्येषां मिथ्यात्वम्, कायक्लेशतो देवताभ्यो वाऽऽत्मविराधना, तद्वन्दनेन तत्कृतासंयमानुमोदनात्संयमविराधनेति गाथार्थः ।।१९० ।। __* आवश्यकनियुक्तौ-११०८, गुरुतत्त्वविनिश्चये-३/१२१, संबोधसित्तर्याम्-१० * अथ पार्श्वस्थादीन् वन्दमानस्य को दोष इति ?, उच्यते - पासत्थाई वंदमाणस्स नेव कित्ती न निज्जरा होइ । कायकिलेसं एमेव कुणई तह कम्मबंधं च ।। पार्श्वस्थादीनुक्तलक्षणान् वन्दमानस्य नमस्कुर्वतो नैव कीर्तिर्न निर्जरा भवति, तत्र कीर्तिः-अहो अयं पुण्यभागित्येवंलक्षणा, सा न भवत्यपि त्वकीर्तिर्भवति, नूनमयमप्येवंस्वरूपो येनैषां वन्दनं करोति, तथा निर्जरणं निर्जरा कर्मक्षयलक्षणा सा न भवति, तीर्थकराज्ञाविराधनाद्वारेण निर्गुणत्वात्तेषामिति, चीयत इति कायो देहस्तस्य क्लेशोऽवनामादिलक्षणः कायक्लेशस्तं कायक्लेशमेवमेव मुधैव करोति निर्वर्तयति, तथा क्रियत इति कर्म ज्ञानावरणीयादिलक्षणं तस्य बन्धो विशिष्टरचनयाऽऽत्मनि स्थापनं तेन वाऽऽत्मनो बन्धः स्वस्वरूपतिरस्करणलक्षणः कर्मबन्धस्तं कर्मबन्धं च करोतीति वर्तते, चशब्दादाज्ञाभङ्गादींश्च
SR No.023423
Book TitleDarshanshuddhi Prakaranam Aparnam Samyaktva Prakaranam
Original Sutra AuthorN/A
AuthorVijaykirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages512
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy