SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ १३४ दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम् चक्रे० : अपि च - देव० : अथ गतानुगतिकेभ्योऽस्तयन्निवाह - बहुजणपवित्तिमित्तं इच्छंतेहिं इहलोइओ चेव । धम्मो न उज्झियव्वो जेण तहिं बहुजणपवित्ती।।१०२।। चक्रे० : स्पष्टा, नवरमिहेति धर्मविचारे लौकिक एव शैवजैमिन्यादिसत्कः ।।१०२।। देव० : बहवश्च ते जनाश्च तेषां प्रवृत्तिः स्वरूचिविरचितमनुष्ठानम्, तदेव बहुजनप्रवृत्तिमात्रमाराधनविराधनविमर्शरहितमित्यर्थः, इच्छद्भिरभिलषद्भिरिह धर्मविचारे, लोकाः शैवजैमिनिप्रभृतयस्तेषामयं लौकिकः, स एव धर्मो नोज्झितव्यो न मोक्तव्यः, यतस्तस्मिन् बहुजनस्य राजामात्यादेः प्रवृत्तिः । न चासौ मुच्यत इति तस्मादसङ्गत एवायं पक्ष इति गाथार्थः ।।१०२ ।। * उपदेशपदे-९१० * आह-यद्येवमल्प एव लोकः प्रमाणीकर्तव्यः स्यात्, तथा चाल्पलोकपरिगृहीतत्वेन धर्मो नात्यर्थमादेयतां नीतो भवेदिति मनसि परिभावयतो भव्यान् शिक्षयन्नाह - बहुजणपवित्तिमेत्तं इच्छंतेहिं इहलोइओ चेव । धम्मो ण उज्झियचो जेण तहिं बहुजनपवित्ती ।। बहुजनप्रवृत्तिमात्रं गतानुगतिकरूपं लोकरूढिमेवेच्छद्भिरिह धर्मचिन्तायां लौकिकश्चैव लोकरूढ एव धर्मो हिमपथज्वलनप्रवेशभृगुपातादिलक्षणो नोज्झितव्यः, येन तत्र धर्मे बहुजनप्रवृत्तिर्लक्षकोट्यादिसंख्यलोकसमाचाररूपा दृश्यते ।।९१०।। चक्रे० : एवं स्थिते कृत्यमाहुः - देव० : एवं स्थिते कृत्यमाह - ता आणाणुगयं जं तं चेव बुहेहिं सेवियव्वं तु। किमिह बहुणा जणेणं हंदि न से अत्थिणो बहुया ।।१०३।। चक्रे० : यस्मात् कारणान्न बहुजनप्रवृत्तिरालम्बनाय तस्मादाज्ञाऽनुगतमागमानुपाति यदनुष्ठानम्, तदेव बुधैः सेवितव्यम् । किमिह धर्मविचारे बहुना जनेन ? हन्दीत्युपप्रदर्शने, न से १. अपि च T,C २. बुहेण A,Z ३. सेयस्थिणो T.C,Z
SR No.023423
Book TitleDarshanshuddhi Prakaranam Aparnam Samyaktva Prakaranam
Original Sutra AuthorN/A
AuthorVijaykirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages512
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy