SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ ३-मार्गतत्त्वम् गा-१०४ तस्याज्ञाऽ नुगतधर्मस्यार्थिनः श्रेयोऽर्थिनो वा मोक्षकाङ्क्षिणो बहुकाः 'सम्प्रति बहवो मुण्डा अल्पाश्च श्रमणाः' इति वचनात् ।।१०३।। देव० : यस्मात्कारणान्न बहुजनप्रवृत्तिरालम्बनीया तस्मादाज्ञानुगतमागमानुपाति यदनुष्ठानं भवति, तदेव बुधेन विवेकिना सेवितव्यमाचरितव्यम्, तुशब्दात्तद्विसंवादि वर्जनीयमित्यर्थः । किं ? न किञ्चिदित्यर्थः, इह धर्मविचारणायां परलोकचिन्तायां वा बहुना जनेन । हन्दीत्युपप्रदर्शने हेतौ वा, न नैव से तस्याज्ञानुगतधर्मस्यार्थिनोऽभिलाषुकाः श्रेयोऽर्थिनो वा मोक्षकाङ्क्षिणो बहवः प्रभूताः किन्त्वल्पा एव सम्प्रतिकाले 'बहवो मुण्डा अल्पाश्च श्रमणाः इति वचनादिति गाथार्थः । । १०३ ।। * उपदेशपदे - ९११ * ता आणाणुगयं जं तं चेव बुहेण सेवियव्वं तु । किमिह बहुणा जणेणं हंदि ण सेयत्थिणो बहुया ।। १३५ तत् तस्मादाज्ञानुगतं सर्वज्ञप्रवचनप्रतिबद्धं यदनुष्ठानं तदेव मोक्षाभिलाषिणा बुधेनोत्तमप्रकृतिना पुरुषेण सेवितव्यम् । तुः पादपूरणार्थः । किमिह धर्मकरणे बहुना जनेन स्वच्छन्दचारिणा लोकेन प्रमाणीकृतेन ? हन्दीति पूर्ववत् । न श्रेयोऽर्थिनो निर्वाणाभिलाषिणो बहवो जना यतः । । ९११ । । चक्रे० : इत्थमनेकधा विधिमार्गसमर्थनमाकर्ण्य महामोहोपहतबुद्धयो यद्वदन्ति तदाहुः देव० : इत्थमनेकधा विधिमार्गसमर्थनमाकर्ण्य महामोहोपहतबुद्धयो यद्वदन्ति तदाह दूसमकाले दुलहो विहिमग्गो तम्मि चेव कीरंते । जायइ तित्थुच्छेओ केसिंची कुग्गहो एसो ।। १०४ ।। चक्रे० : दुःषमाकाले दुर्लभो गुरुकर्मकतया दुरापो विधिमार्गस्तस्मिन्नेव क्रियमाणे तीर्थोच्छेदो जायते । 'बहुभिर्विधिमार्गानुष्ठानस्य कर्त्तुमशक्यत्वाद्' एष केषाञ्चित् कुग्रहः । । १०४ । । — देव० : दुःषमावसर्पिण्या: पञ्चमोऽरकः, स चासौ कालश्च दुःषमाकालस्तस्मिन् दुर्लभो दुरापः स्वकीयक्लिष्टकर्मपरिणतेरुन्मार्गप्रवृत्तलोकाद्वा विधिमार्गः शास्त्रानुसारिज्ञानश्रद्धानानुष्ठानरूपस्तस्मिन्नेव क्रियमाणे, प्राक्तनचेवशब्दस्येहापि सम्बन्धात्तीर्थोच्छेद एव जिनशासनविलुप्तिर्जायते, शास्त्रोक्तानुष्ठानस्य प्रायेण कर्तुमशक्यत्वाद्, तदितरस्य चामार्गरूपत्वादेष साक्षान्निरूपितः केषाञ्चिदतत्त्ववेदिनां कुग्रहः कदभिप्राय इति गाथार्थः ।।१०४।। १. तंमि चेव कीरंति PK
SR No.023423
Book TitleDarshanshuddhi Prakaranam Aparnam Samyaktva Prakaranam
Original Sutra AuthorN/A
AuthorVijaykirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages512
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy