SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ ३-मार्गतत्त्वम् गा-१०१ १३३ कलौ काले किलैतस्मिन् सम्मोहवशवर्तिनि । एतदेव महच्चित्रं नरायल्लिंगधारिणः ।। [ ] इत्याद्याः कुयुक्तयः साराणि यस्य स तथा तद्विधेन न भाव्यमत्र मोक्षमार्गे विचारे, कुतः ? बहुमुण्डादिवचनतो यदि हि लोकप्रवृत्तिरेव बलीयस्यभविष्यत्तदा नेदमागमवचनमभविष्यत्, तथाहि कलहकरा डमरकरा असमाहिकरा अनिव्वुइकरा य । होहिंति भरहवासे बहुमुण्डे अप्पसमणे य ।। [विचारसार-५०२] इत एतस्माद्धेतोः सावधारणत्वादाजैव तीर्थकृदुक्तमेवेह प्रामाण्यविचारे प्रमाणं तत्त्वमिति गाथार्थः ।।१०१।। * उपदेशपदे-८१२ * अत एवाह - णेगंतेणं चिय लोयणायसारेण एत्थ होयव्वं । बहुमुंडादिवयणओ आणावित्तो इह पमाणं ।। न नैवैकान्तेन सर्वथैव लोक एव पार्श्वस्थादिरूपो यदृच्छाप्रवृत्तो ज्ञातं दृष्टान्तं तत् सारमवलम्बनीयतया यस्य स तथा तेनात्र चारित्राराधने भवितव्यम् । कुत इत्याह-बहुमुण्डादिवचनतः । कलहकरा डमरकरा असमाहिकरा अनिव्वुइकरा य । होहिंति भरहवासे बहुमुण्डे अप्पसमणे य ।। इति वचनात्, एतद्वचनपरिभावनेन पार्श्वस्थादीन् दृष्टान्तीकृत्य नासमञ्जसे प्रवर्तनीयमित्यर्थः । तथाविधापवादप्राप्तौ तु गुरुलाघवालोचनपरेण गीतार्थेन साधुना कदाचित् प्रवृत्तिसारेणापि भवितव्यमिति सूचनार्थमेकान्तेनेत्युपात्तम् । बहुवित्थरमुस्सग्गं बहुविहमववाय मो वियाणित्ता । लंघेऊणन्नविहं बहुगुणजुत्तं करेज्जासु ।। अत एवाह-आज्ञावित्तक आज्ञैव वित्तं धनं सर्वस्वरूपं यस्य स तथा पुमानिह लोकोत्तराचारचिन्तायां प्रमाणीकर्त्तव्य इति ।।८१२ ।।
SR No.023423
Book TitleDarshanshuddhi Prakaranam Aparnam Samyaktva Prakaranam
Original Sutra AuthorN/A
AuthorVijaykirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages512
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy