SearchBrowseAboutContactDonate
Page Preview
Page 405
Loading...
Download File
Download File
Page Text
________________ 3८२ શ્રીસિદ્ધહેમચન્દ્રશબ્દાનુશાસન स्योजसमौशस्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङयोस्सुपां त्रयी त्रयी प्रथमादिः।१।१।१८।। बृन्यास-स्यौजसित्यादि-इदं वचनमनर्थकं वा स्याद्, यथा-किञ्चिदुन्मत्तादिवाक्यम्, सार्थकं वा? यथा-'गामभ्याज' इत्यादि वाक्यम्। न तावदनर्थकम्, वृत्त्युपदिष्टेनार्थनार्थवत्त्वाद्, वक्ष्यमाणार्थमेवेदं न साधुत्वानुशासनार्थमिति। कुत एतत् ? उच्यते (न) तावत् स्यादीनां साधुत्वान्वाख्यानार्थम्, लक्षणान्तरेण साधुत्वस्यान्वाख्यातत्वात्। नापि प्रयोगनियमार्थम्, अनेन संस्कृत्योत्सृष्टानां यथेष्टं प्रयोगदर्शनाद्, यथा-"दीर्घड्याब्व्यञ्जनात् से:” (१.४.४५) इति। स्थान्यादेशार्थमपि न भवति, संज्ञाप्रकरणे उपादानात्। अत एवाऽऽगमागमिभावार्थमपि न भवति, अन्तादिरूपाऽऽगमलिङ्गाभावाञ्च । नापि विशेषण-विशेष्यभावार्थम्, शब्दलक्षणे तदनुपयोगाद् । तस्मात् पारिशेष्यात् स्यादीनां प्रथमादिव्यवहाराभावात् पारम्पर्यात् संज्ञाप्रकरणे विधानाञ्च संज्ञार्थमिदमित्याह-स्यादीनामित्यादि। त्रयोऽवयवा अस्याः "द्वि-त्रिभ्यामयड् वा" (७.१.१५२) इत्ययटि टित्त्वाद् ड्यां च त्रयीति, संख्यातानुदेशार्थम्, “वीप्सायाम्" (७.४.८०) इति द्वित्वम्। “प्रथिष् प्रख्याने" "सृ-पृ-प्रथि-चरि०" (उणा० ३४७) इत्यमे आपि प्रथमा। द्वयोः पूरणी द्वितीया। "उभेट्टैत्रौ च" (उणा० ६१५) इति इकारे त्रिः, तासां पूरणी “त्रेस्तृ च" (७.१.१६६) इति तृतीया। “चतेग याचने" "चतेरुर्" (उणा० ९४८) इत्युरि चतुर्, तासां पूरणी “चतुरः” (७.१.१६३) इति थटि ड्यां चतुर्थी। एवं पञ्चानां पूरणी पञ्चमी। “सहे: षष् च" (उणा० ९५१) इति क्विपि षष्, तासां पूरणी “षट्-कति-कतिपयात् थट्" (७.१.१६२) इति थटि षष्ठी। “षप समवाये" "षप्यशोभ्यां तन्" (उणा० ९०३) इति तनि (सप्तन्,) सप्तानां पूरणी “नो मट्" (७.१.१५९) इति मटि सप्तमी। नन्विकारादीनामनुबन्धानां किं प्रयोजनम् ? यत: “सो रुः" (२.१.७२) इत्यादिर(त्यादाव)नुबन्धरहितस्यैव स्यादेः कार्य दृश्यते इत्याह-इ-ज-श-टेत्यादि । यदि हि स्यादेरिकारादिरनुबन्धो न स्यात्, तदा “सौ नवेतौ” (१.२.३८) इत्यादौ संदेहः स्यात्। (विशेषणार्था:-) विशेषो विशेषणं व्यवच्छेद इति यावत्, तत्प्रयोजना इत्यर्थः, अन्यथा जस्-शस्-ङसि-ङसाम्' एकरूपत्वादेककार्यता स्यात्, ङसेरपीकारमन्तरेण ङस्कार्यं स्यात्, सेस्तु “दीर्घड्याब्व्यञ्जनात् से:" (१.४.४५) इति 'वाक्षु' इत्यादौ सुप्सकारस्यापि लोप: स्यात्, उकारे तु “सो रुः" (२.१.७२) इत्यादावस्यैव ग्रहणं स्याद्, नाननुबन्धकस्य ‘पयस्' इत्यादेः सकारस्य, सुपस्तु तत्र ग्रहणं न भवति सानुबन्धकत्वात्, ‘सुपः' इत्यकरणाद् वा। सुपः पकारमन्तरेण “अरोः सुपि रः" (१.३.५७) इत्यत्र 'सौ' इति कृते 'गीः सुनोति' इत्यत्रापि स्यात्। टेति टकारमन्तरेण "टादौ स्वरे वा” (१.४.९२) इत्यत्र ‘आदौ' इति कृते आकारादिस्वरप्रसङ्गः। “रागाट्टो रक्ते" (६.२.१) इत्यत्र 'रागाद्दो रक्ते' इत्युक्ते उकारान्ताद् रागादित्यादिसंदेहप्रसङ्गः स्यात्। चतुर्थी-सप्तम्येकवचनयोनिरनुबन्धत्वेऽनुबन्धान्तरे वा “आपो ङिताम्०” (१.४.१७) इत्यादौ संख्यातानुदेशो बहुवचनं च विरुध्येत। न च “डे: स्मिन्” (१.४.८) इत्यादौ संदेहाऽऽशङ्का, चतुर्थंकवचनस्य स्मैविधानेनाघ्रातत्वात्, पारिशेष्यात् सप्तम्येकवचनस्यैव परिग्रह इति।।१८।। ल.न्यास- स्यौजसित्यादि-त्रयी त्रयीति भवनक्रियायां वीप्सा। विशेषणार्था इति-विशेषो विशेषणं व्यवच्छेद इति यावत्, तत्प्रयोजना इत्यर्थः। प्रथमा आदिर्यस्य संज्ञासमूहस्य। बहुवचनमिति-*तदादेशास्तद्वद् भवन्ति* इति न्यायात् साध्यसिद्धिर्भविष्यति किं बहुवचनेन? सत्यम्-न्यायं विनाऽपीत्थं साधितम्। इयं हि महती शक्तिर्यत् परिभाषां न्यायांश्च विना साध्यत इति।।१८।। स्त्यादिर्विभक्तिः ।१।१।१९।। बृन्न्यास-स्त्यादिरित्यादि-"भजी सेवायाम्" विभज्यन्ते विभागशः प्रकाश्यन्ते कर्तृ-कर्मादयोऽर्था अनयेति "श्वादि भ्यः (५.३.९२)" इति क्तौ विभक्तिः। ननु “स्यौजस०" (१.१.१८) इति “तिव्-तस्०" (३.३.६) इति च सूत्रे 'सि-तिव'रूपस्योपादानात्
SR No.023413
Book TitleSiddhahemchandra Shabdanushasan Gujarati Vivaran Adhyay 01 01
Original Sutra AuthorHemchandracharya
AuthorSanyamprabhvijay, Prashamprabhvijay
PublisherSyadwad Prakashan
Publication Year2012
Total Pages484
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy